________________ 216 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 98. व्यावृत्तिकः, सन्दिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् / एकत्रापि तु वृत्त्यनिश्चयादसाधारणानकान्तिको भवति / ततोऽसाधारणानकान्तिकस्यानकान्तिकत्वे हेतुद्वयं दर्शयितुमाह न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वतते(वर्तेत) // 6 // नहीति / सहात्मना वर्तते सात्मकः / निष्क्रान्त आत्मा यस्मात् स निरात्मकः / ताभ्यां यस्मानान्यो राशिरस्ति। किंभूतः ? यत्रायं वस्तुधर्मः प्राणादिवर्तेत ? तस्मादयं ४तयोर्भवति संशयहेतुः // कस्मादन्यराश्यभाव इत्याह आत्मनो वृत्ति-व्यवच्छेदाभ्यां सर्वसंग्रहात् // 16 // आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावः / ताभ्यां सर्वस्य वस्तुनः संग्रहात् क्रोडीकरणात् / यत्र ह्यात्मा अस्ति तत् सात्मकम् / अन्यन्निरात्मकम् / ततो नान्यो राशिरस्तिइति संशयहेतुत्वकारणम् // यदैकत्रव सत्तानिश्चयो विरुद्धो वा स्यादित्युक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा का वार्तेत्याह-अनियतेति। तुर्विशेषार्थः। अनियतोऽत्रवायं वर्तत इत्येवंरूपनियमशून्यो यः सत्तानिश्चयस्तस्मिन् सति / यदोभयत्र सत्तानिश्चयस्तदा सपक्षविपक्षसाधारणत्वात्साधारणः, : यदा तु विपक्षवृत्तिसम्भावनायामनिश्चय (नियत)सत्तानिश्चयस्तदा सन्दिग्धविपक्षव्यावृत्तिकः / यदा पुनः सपक्षे वृत्तिसन्देहेनानियतसत्तानिश्चयस्तदा सन्दिग्धान्वयासिद्धव्यतिरेकः / यदा तु सपक्षासपक्षयोरेकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेरसाधारणः / एतदेवाहएकत्रापीति / यतः पक्षधर्मस्योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस्तस्मात् दर्शयितुं दर्शयिष्यामीति मत्त्वा / राशिः प्रकारः / वस्तुधर्मत्वं च प्राणादेरवस्तुनि शशविषाणादायवृत्तः। यतो राश्यन्तराभावस्तस्मात्कारणावयं प्राणादिमत्त्वाख्यो हेतुः। तयोः सात्मकनिरात्मकयोः / साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे / तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्यामाकाराभ्यां सर्ववस्तुसंग्रह एकं कारणमुक्तम् / नाप्यनयोरित्यादिना तु तयोरेकत्रापि वृत्त्यनिश्चयो द्वितीयं कारणमुक्तमिति दर्शयितुमाह-संशयेति // 1 सात्मकानात्मका० C 2 यत्र प्राणा.D.B.P.H. E.N.प्राणादिवर्तत-N . आभ्यां D. .०दयं द्वयोर्भ० C. 5 आत्मवृत्ति० C. 6 सर्वस्य सं० C 7 तदन्यन्नि A. B. P.H. N. 8 'इति' नास्ति A. B. C. D P. H. N.