________________ 3.97.] असाधारणानकान्तिकनिरूपणम् / 215 अयमसाधारणः संशयहेतुरुपपादयितव्यः। पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् / संशयविषयौ यावाकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात्। तयोश्च व्यापकयोराकारयोरेकत्रापि वृत्त्यनिश्चयात् / 'याभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोराकारयोर्न संशयः। प्रकारान्तरसंभवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात् / अतो न संशयहेतुः स्यात् / द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः / द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तोऽप्रतिपत्तिहेतुः। नियतं तु भावं दर्शयन् सम्यग हेतुविरुद्धो वा स्यात् / तस्मात् 'याभ्यां सर्वं वस्तु संगृह्यते तयोः६ संशयहेतुर्यदि तयोरेकत्रापि सद्धावनिश्चयो न स्यात् / सद्धावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो हेतुविरुद्धो वा स्यात् / अनियतसत्तानिश्चये तु साधारणानकान्तिकः, सन्दिग्धविपक्ष कथं पुनरयं संशयहेतुरुपपादयितुं शक्यते यावता नास्मात्सात्मकत्वस्यानात्मकत्वस्य वा प्रतिपत्तिर्जायते / ततोऽप्रतिपत्तिरेवासाधारण इत्ययोतकरमतमाशङक्य यत्र (न)हीत्युक्तं वार्तिककृता तदवतारयितं भमिकां रचयन्नाह-पक्षधर्मस्पेति / चो यस्मादर्थे / पक्षस्य धर्मस्य सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् / सर्वस्य निःशेषस्य संग्रहाज्ज्ञापनात् / तयोर्ध्यापकयोराकारयोः सात्मकत्वानात्मकत्वाख्ययोविषयभूतयोरेकत्रापि विषयेऽनिश्चयात्तस्य पक्षधर्मस्येत्यर्थात् / ननु संशय्यमानयोराकारयोः सर्ववस्तुव्यापनेन किं ? येन तथात्वं तयोरुपवर्ण्यत इत्याह-याभ्यामिति / हीति यस्मात् / कथं पुनस्तयोराकारयोर्न संशय इत्याह-प्रकारान्तरेति / हिर्यस्मादर्थे / पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोरेकेन धर्मेण सात्मकत्वाख्येन अनात्मत्वाख्येन वा / अवियुक्तं युक्तं सम्बद्धमिति यावत् / न शक्नोति दर्शयितुं प्रकारान्तरेण सम्बन्धस्य तस्य सम्भवात् / यत एवमतः स पक्षधर्मो न संशयहेतुः स्यात् / तयोराकारयोरिति सामर्थ्यात् / अथ कथं सात्मकत्वानात्मकत्वे द्वौ धौ दर्शयन्नपि संशयहेतुरुच्यत इत्याह-द्वयोरिति / वर्श[73a] यन्निति हेतौ शतुर्विधानादनियतभावप्रदर्शनादित्यर्थो बोद्धव्यः / नन नियताभावमदर्शयन्नप्रतिपत्तिहेतुरेवायं युज्यत इत्याह-द्वयोस्त्विति। तुशब्दो यस्मादर्थे। नियतप्रदर्शकस्यापि किं न तथात्वमित्याह-नियतत्वं (यतं) त्विति / तुः पूर्ववद् विशेषणार्थो वा। यस्मादेवं तस्माद हेतोः / नियतोऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा। विरुद्धोऽपि विपर्यये सम्यग्हेतुरेवेत्येकत्र सत्तानिश्चये विरुद्धो वा स्यादित्युक्तम् / १यकाभ्यां A. B.C. D. P. H. N. शशविषाणादि:-टि० तु' नास्ति A. B. P. H. E. N. 4 'सम्यग' नास्ति A. B. P. H. E. N. यकाभ्यां B.C. D. P. H. N. 6 तयोराकारयोः सं० C. ७०यो विरुद्धो हेतुर्वा स्यात् A. B. D. P. H. E. N. .