________________ 214 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.94. कीदृशोऽसावित्याह यथा वीतरागः कश्चित् सर्वज्ञो वा, वक्तृत्वादिति / व्यतिरेकोत्रासिद्धः। सन्दिग्धोऽन्वयः // 14 // यथेति / विगतो रागो यस्य स वीतराग इत्येकं साध्यम्। सर्वज्ञों वेति द्वितीयम् / वक्तत्वादिति हेतः। व्यतिरेकोऽत्रासिद्ध इति / स्वात्मन्येव सरागे चासर्वज्ञे च विपक्ष वक्तृत्वं दृष्टम् / अतोऽसिद्धो व्यतिरेकः / सन्दिग्धोऽन्वयः॥ कुत इत्याह सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् // 15 // सपक्षभूतयोः सर्वज्ञ-वीतरागयोविप्रकर्षादित्यतीन्द्रियत्वाद् वचनादेरिन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञत्ववी (ज्ञवी) तरागयोः सत्त्वमसत्त्वं वा सन्दिग्धम् / ततश्च न ज्ञायते किं. वक्तृत्वात् सर्वज्ञ उत नेत्यनकान्तिक इति // संप्रति द्वयोरेव सन्देहेऽनकान्तिकं वक्तुमाह अनयोरेव द्वयो रूपयोः संदेहेऽनैकान्तिकः // 66 // अनयोरेव–अन्वय-व्यतिरेकरूपयोः सन्देहात् संशयहेतुः // उदाहरणम् यथा' सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति // 17 // यथेति / सहात्मना वर्तते सात्मकमिति साध्यम् / शरीरमिति धर्मी। जीवद्ग्रहणं धमिविशेषणम्। मते ह्यात्मानं नेच्छति / प्राणाः श्वासादय आदिर्यस्योन्मेषनिमेषावेः प्राणिधर्मस्य स प्राणादिः / स यस्यास्ति तत् प्राणादिमत् जीवच्छरीरम् / तस्य भावस्तत्त्वम् / तस्मादित्येष हेतः॥ जीवत्प्राणान् धारयच्च तच्छरीरं चेति विग्रहः / उन्मेषश्चक्षुर्विकाश आदिर्यस्य निमेषादेस्तस्य प्राणिधर्मस्य जीवधर्मस्य। असाधारणः सपक्षविपक्षावृत्तः / विवादाध्यासितस्यैव धर्मिणो धर्म इत्यर्थः / असाधारणत्वादेव संशयहेतुरिति हेतुभावेन विशेषणम् // . 1 'कश्चित्' नास्ति-C. 2 वक्तृत्वात् / व्य० C. / उदाहरणं यथा D. उदाहरणं च C. 4 'यथा' नास्ति B. C. D. P. H. ५०मत्वात् / - C. ' 'यथेति' नास्ति-A. B. C. D. P. H. N. ७प्राणा आश्वा० A. B. P. H. E.N.