________________ 220 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.106 नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः / नापि च निरात्मकात् / सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या // कथमन्वयव्यतिरेकयो भावनिश्चय इत्याह एकामावनिश्चयस्यापर भावनिश्चयनान्तरीयकत्वात् // 106 // एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽपरस्य द्वितीयस्य भावनिश्चय- . नान्तरीयकः 'भावनिश्चयस्याव्यभिचारी। तस्य भावस्तत्त्वं तस्मात् / यत एकाभावनिश्चयो:परभावनिश्चय नान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः॥ कस्मात् पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाऽव्यभिचारीत्याह "अन्वय-व्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात्। 'तत एवान्वयव्यतिरेकयोः संदेहादनकान्तिकः // 107 // अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वादिति / अन्योन्यस्य व्यवच्छेदोऽभावः, स एव रूपं ययोस्तयोर्भावस्तत्त्वम् तस्मात् कारणात् / अन्वयव्यतिरेको भावाभावी। भावाभावी च परस्परव्यवच्छेदरूपौ। यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितम् / स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यते / तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः। अभावो हि नीरूपो यादशो विकल्पेन दर्शितः। नीरूपतां च व्यवच्छिद्य रूपमाकारवत् परिच्छिद्यते / तथा च सत्यन्वयाभावों व्यतिरेकः, व्यतिरेकाभावश्चान्वयः / / ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति / व्यतिरेकाभावे च निश्चितेऽन्वयो निश्चितो भवति / ननु चेत्यादि तस्मात्कारणादित्येतदन्तं स्पष्टार्थं तेन न व्याख्यायते / अन्योन्यव्यवच्छेदरूपत्वमेवान्वयव्यतिरेकयोः कथमित्याशङक्याह-अन्वयव्यतिरेकाविति / अभावरूपत्वञ्च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् / भवतां तौ तथारूपौ किमत इत्याह-भावाभावाविति / चो यस्मादर्थे / भवत्वेवं तथापि कथं तयोरन्योन्यपरिहारेणावस्थानमित्याह-यस्येति / नन्वत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत्परिहारेण तद् व्यवतिष्ठत इत्याहस्वाभावेति / हेत्वर्थश्चकारः / तावत्कासा (कोऽसा)वभावो नाम यव्यवच्छेदेन भावः / 1 एकस्याभा०C २०स्यापराभावनान्त०B.P.H..स्यापरभावनान्तरी•D.E. / स एवापरस्य E. N. 4 भावे निश्च० A.B.P.H. ५.रीयकः भवति निश्च० A. B. P. H. 6 'निश्चय' नास्तिA,C. 7 अत एवान्वय.C, (अत एव D.B.P.H.E.N.