________________ 211 3.87. ]. विरुद्धहेत्वाभासलक्षणम् / एतौ हेतू नित्यत्वे साध्ये विरुद्धौ हेत्वाभासौ // कस्मात् पुनरेतौ विरुद्धावित्याहअनयोः सपक्षेऽसत्त्वम् , असपक्षे च सत्त्वमिति विपर्ययसिद्धिः // 4 // अनयोरिति / सपक्षे हिर नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् / अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः // कस्मात् पुनविपर्ययसिद्धावप्येतौ विरुद्धावित्याह- . एतौ च साध्यविपर्ययसाधनाविरुद्धौ // 8 // एतौ च साध्यस्य नित्यत्वस्य विपर्ययम्-अनित्यत्वं साधयतः। ततः साध्यविपर्ययसाधनाद्विरुद्धौ // यदि साध्यविपर्ययसाधनाद्विरुद्धावेतो, उक्तं च पारार्थानुमाने साध्यम्, न त्वनुक्तम् ; इष्टं च अनुक्तम् / अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह "ननु चं तृतीयोऽपीष्टविघातकृद् विरुद्धः // 86 // ननु च तृतीयोऽपि विरुद्ध उक्तः / उक्तविपर्ययसाधनौ द्वौ। तृतीयोऽयमिष्टस्य शब्देनानपात्तस्य ६विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत् // तमदाहरतियथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति // 87 // ननु प्रयत्नानन्तरीयक[त्व] शब्द उपात्तस्तत्किप्रयत्नानन्तरीयकशब्दस्यार्थ उच्यत इत्याह-प्रयत्नानन्तरीयकत्वमिति प्रयत्नानन्तरीयकत्वशब्देनापि तदेवोक्तं वस्तुत इत्यर्थः / तेन शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्यत्याशङक्य जन्मेत्यादिना विभजते / यतो ज्ञानस्याप्यभिधानं तत्तस्मादिह विरुद्धोदाहरणप्रक्रमे / अनुपलम्भस्त्वनयोरेवान्तर्भूतत्वान्न पृथगुपदर्शितः / एतयोरुदाहृतयोरेव सोऽपि सुज्ञान इति भाव उन्नयः / - लक्ष्यते चायमाचार्यस्याशयः सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो विरुद्ध एवेति दर्शयितुमुभयोपादानम् / अन्यथा कृतकत्वमात्र प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक एव यः स विरुद्धो न तु प्रयत्नानन्तरीयकवद् यो विपक्षाव्यापीति शङ्का स्यात् / तथा . द्धिरिति-C. 'ततः' नास्ति -A. B. P. H. N. प्रमाणविनिश्चयादौ-टि० 2 'हि' नास्ति A. B. P. H E. N. 4 तत्र च-B. P. H. ' 6 विधानं-A. B. P. H.