________________ 210 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.81. इति शब्दस्तस्मादर्थे / 'तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात्सर्वज्ञत्वाव, रागाविमत्त्वविपर्ययादरागादिमत्त्वात् संदिग्धो व्यतिरेको वचनादेः / अतोऽनकान्तिको वचनादिः // एवमेकैकरूपादिसिद्धिसंदेहे हेतुदोषान् आख्याय द्वयोर्द्वयो रूपयोरसिद्धिसंदेहे हेतुदोषान् वक्तुकाम' आह ___द्वयो रूपयोविपर्ययसिद्धौ विरुद्धः // 1 // द्वयोरिति / द्वयो रूपयोविपर्ययसिद्धौ सत्त्यां विरुद्धः / त्रीणि च रूपाणि सन्ति / ततो विशेषज्ञाप"नार्थमाह कयोद्वयोः ? // 2 // कयोयोरिति // . . विशिष्ट रूपे दर्शयति सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य / यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः // 83 // सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य विपर्ययसिद्धाविति संबन्धः / कृतकत्वमिति स्वभावहेतुः। प्रयत्नानन्तरीयकत्वमिति कार्यहेतुः / प्रयत्नानन्तरीयक' शब्देन हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते। जन्म जायमानस्य स्वभावः। ज्ञानं ज्ञेयस्य कार्यम् / तदिह प्रयत्नानन्तरं ११ज्ञानं गृह्यते / १२तेन कार्यहेतुः / सर्वानकान्तिकप्रकारानुक्त्वा विरुद्धत्वाख्यं हेतुदोषमभिदधानो वार्तिककारस्याभिप्रायम् एवमित्यादिना दर्शयति / व्यक्तिभेदविवक्षया हेतदोषानिति बहुवचनेनाह // विशिष्ट रूपे द्वे दर्शयति / यदि द्वावपि स्वभावहेतू तदा किं द्वयाभिधानेन ? एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शितत्वादित्याशङक्य समर्थनमाह-कृतकत्वमिति / ननु स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वमन्यत्र दर्शितम्। तत्कथमनेनैवमुच्यत इत्याह-प्रयत्नेति / हिर्यस्मात् / प्रयत्नस्य पुरुषव्यापारस्यानन्तरमव्यवहितं जन्म ज्ञानं च तद्विषयमुच्यते / 1 तस्मादसर्वज्ञत्वावीतरागत्वविपर्ययात् विपक्षात् सर्वज्ञत्वा (त्व) वीतरागादिमत्त्वात् संदिग्धो-B. तस्मादसर्वज्ञरागादिमत्त्वविपर्ययात् विपक्षात् सर्वज्ञत्वादरागादिमत्वाच्च संदिग्धोC . वचनादि: C. 3 कामा C. 4 द्वयोः / -D. 'ज्ञानार्थ० C. स्य च कृत. C. 7 चेति C. सिद्धिरिति C. - 9 कार्यहेतोः H. 0 ०कत्वश. C. "प्रयत्नानन्तरीयकत्वग्राहकम्-टि. ततः का० C. D.