________________ 3.80. ]. विरोधनिरूपणम् / 209 - न चाविरुद्धविधेरिति / अनुपलब्धावपि नायं विरुद्धविधिः। यद्यपि सहावस्थानानुपलम्भस्तथापि न तयोविरोधः। यस्मान्न सहानुपलम्भमात्राद् विरोधोऽपि तु द्वयोरुपलभ्यमानयोनिवर्त्यनिवर्तकभावावसायात् / तस्मादनुपलब्धावपि न वक्तृत्वविधेविरुद्धविधिः / अतोऽस्मान्नान्यस्याभावगतिः // तथा न वक्तृत्वाद् रागादिमत्त्वगतिः। यतो यदि वचनादि रागादीनां कार्य स्याद्वचनादे रागादिगतिः स्यात् / रागादिनिवृत्तौ वचनादिनिवृत्तिः स्यात् / न च कार्यम् / कुतः रागादीनां वचनादेश्च कार्यकारणभावासिद्धः // 7 // रागादीनां वचनादेश्च कार्यकारणभावस्याऽसिद्धेः कारणान्न कार्यम् / अतोऽस्मान गतिः // मा भूद्रागादिकार्य वचनं सहचारि तु भवति / ततो रागादौ सहचारिणि निवृत्ते निवर्तते वचनमित्याशङक्याह अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेनिवृत्तिः // 76 // अर्थान्तरस्य चाकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेनिवृत्तिः / अतो वक्तृत्वं भवेद्रागादिविरहश्च // - इति सन्दिग्ध व्यतिरेकोऽनैकान्तिको वचनादिः॥८॥ हृतं स्यात् तदा वक्तृत्वस्य वक्तुरभेदात्सर्वज्ञत्वस्य च सर्वज्ञाद. वक्तव सर्वज्ञो न स्यात्, सर्वज्ञ एव वा वक्ते ति युक्तमनयोः परस्परपरिहारस्थितलक्षणताऽभावप्रतिपादनमिति / * यदि नास्त्येव विरोधः सहानवस्थानलक्षण इति द्रष्टव्यम् / अन्यथा घटपटयोर्दृष्टान्तता न स्यात् / उपसंहारे चायमों व्यक्तीकरिष्यते / उक्तं विरुद्धत्वे सहावस्थानादर्शनं कारणम्, तत्किमेवमुच्यत इत्याशङक्याह—यद्यपीति / तथापि तेनापि प्रकारेण / अतो हेतोरस्माद् वक्तृत्वाद् अन्यस्य सर्वज्ञत्वस्य नाभावप्रतिपत्तिः // __ यथा वक्तृत्वादसर्वज्ञत्वगतिर्नास्ति तथा वक्तृत्वाद् रागादिमत्त्वस्यापि गतिर्नास्तीति जिज्ञापयिषुराह-तथेति / आदिग्रहणाद् द्वेषादिपरिग्रहः / रागादिशब्दसन्निधानाद्रागादि सहचारीति बोद्धव्यम् / यथा सन्दिग्धविपक्षव्यावृत्तिकसाधनदोषस्तथा. प्रागेवाभिहितमिति न पुनरुच्यते // 1 यद्यपि च A. B. P. H. E. N. 2 निर्वत्य A. / वक्तृत्वविरोधिविरुद्धविधिः A. B. P. H. N. 4 वचननिवृ० B.C. D. निवतिष्यते-C. 6 वा कारण A. B. P. H. E. वाऽकारण• N. . . सन्दिग्धव्यावृत्ते (त्ति) काऽन० C. - 27