________________ 208 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 77.. स चायं द्विविधोपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न संभवति / न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः। सर्वज्ञत्वं ह्यदृश्यम् / अदृष्टस्य चाभावो नावसीयते / ततो नानेन विरोधगतिर्भवति / न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् / काष्ठादयो हि वक्तृत्वपरिहताः। तेषामपि सर्वज्ञत्वप्रसङ्गात् / नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् / काष्ठादीनामपि वक्तृत्वप्रसङ्गात्। तत एवाविरोधाद् वक्तृत्व विधेर्न सर्वज्ञत्वनिषेधः // स्यादेतत्-यदि नास्त्येव विरोधो घटपटयोरिव स्यादपि तयोः सहावस्थितिदर्शनम् / सहावस्थित्यदर्शनात तु विरोधगतिः। विरोधा'च्चाभावगतिरित्याशडक्याह न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः // 77 // तत्राद्यस्य तावदभावं न हीत्यादिना दर्शयति / हीति यस्मात् / कुतो नाभावगति-. रित्याह-सर्वज्ञत्वं हीति / हिर्यस्मात् / अदृश्यस्यापि कि नाभावगतिरित्याह-अदृष्टस्यति / चो यस्मादर्थे / यत एवं ततस्तस्मात् / अनेन ववतत्वेन विरोधगतिर्नास्ति तस्य सर्वज्ञत्वस्येत्यर्थात् / द्वितीयस्य विरोधस्य [अभावं] प्रतिपादयन्नाहन चेति / च: प्रतिषेधसमुच्चये / उपपत्तिमाह-काष्ठेति। हिर्यस्मात् / कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नावस्थितमित्याहतेषामपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात्प्रसक्तेः / कुतस्तेषां तथात्वप्रसङ्ग इत्याशङक्य : योजनीयं काष्ठादय इति / हिर्यस्मात् / काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहतास्त्यक्ताः। वक्तृत्वमेव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्याह-नापीति / अपिः प्रतिषेधसमुच्चये। अत्रापि तामेवोपपत्तिमाह-काष्ठेति / इहापि काष्ठादयो हि सर्वज्ञत्वेन परिहृता इति द्रष्टव्यम् / स्यादेतत्-वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणताविरोधेऽपि का क्षतिर्येन. तन्निषेधः कृतः / तथा ह्यन्योन्यपरिहारेणावस्थानेऽपि यद् वक्तृत्वं तत्सर्वज्ञत्वं मा भुत्, सर्वज्ञत्वं वा वक्तत्वम / तयोस्त्वेकत्रस्थितिरविरुद्धव / तदनन्तरमेवोक्तं धर्मोत्तरेण [72al सत्यपि चास्मिन विरोधे सहावस्थानं स्यादपीति। तदेतदसत् / येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नावेव धी तेषामिदं शोभते न तु ताथागतानां धर्ममिणोर्वास्तवमभेदमिच्छताम् / तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरि 'गतिरिति-D. 2 ०दयोऽपि वक्तृ० A. B. P. H. E. N. ०दयोऽपि हि वक्तृ C. 3 विधाने न सर्व० A. B. P. H. E. N. १०र्शनम्। अदर्शनात् तु-A. B. D. P. H. E. N. . 5 विरोधादभा B. D. 6 न च विरु० C.