________________ 212 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.88. ' यथेति / चक्षुरादय इति धर्मी। परोऽर्थः प्रयोजनं परार्थः प्रयोजकः संस्कार्य उपकर्तव्यो येषां ते परार्था:-इति साध्यम्। संघातत्वात् संचितरूपत्वादिति हेतुः। चक्षुरादयो हि परमाणुसंचिति रूपाः। ततः संघातरूपा उच्यन्ते / शयनमासनं चादिर्यस्य तच्छयनासनादि। तदेवानं पुरुषोपभोगाङ्गत्वात् / अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः। अत्र हि पारायंन संहतत्वं व्याप्तम् / यतः ४शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति परार्था उच्यन्ते // कथमयमिष्टविघातकृदित्याह तदिष्टासंहतपारार्थ्यविपर्ययसाधनाविरुद्धः // 8 // तदिष्टासंहतपारार्थ्यविपर्ययसाधनादिति / असंहते विषये पारार्थ्यमसंहतपारार्थ्यम् / तस्य सांख्यस्म वादिनः इष्टमसंहतपारायं तदिष्टासंहतपारार्थ्यम् / तस्य विपर्ययः संहतपाराथ्यं नाम / तस्य साधनाद् विरुद्धः / ____ 'आत्मा अस्ति' इति ब्रुवाणः सांख्यः 'कुत एतद्' इति पर्यनुयुक्तो बौद्धनेदमात्मनः सिद्धये प्रमाणमाह। तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् / अयं तु हेतुविपर्ययव्याप्तः। यस्माद्यो यस्योपकारकः स तस्य जनकः। जन्यमानश्च युगपत् क्रमेण वा भवति संहतः। तस्मात् परार्थाश्चक्षुरादयः संहतपरार्था इति सिद्धम् // प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्तावव्याप्त्यैव यो विपक्षे वर्तते स एव विरुद्धो नान्य इति शङ्का स्यात्, एतावतापि [72b] विपर्ययसिद्धरुपपत्तेः / यदि तु कार्यहेतुरुदाहृत इत्युच्यते, तदानुपलब्धिरप्युदाहर्त्तव्या स्यात् / न च तस्यास्तत्रान्तर्भावान्नोदाहरणमिति युक्तम्, अन्वयादिप्रदर्शनेऽपि अनुदाहरणप्रसङ्गात् / एवं धर्मोत्तरेण कथं न व्याख्यातमिति न प्रतीमः // अर्थशब्दः प्रयोजने वृत्तस्तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वमित्यभिप्रेत्य परार्थः प्रयोजक इत्युक्तः। परस्मिन्नर्थः प्रयोजनं येषामिति गमकत्वाद् व्यधिकरणबहवीहौ तु सर्वं समञ्जसं केवलमनेन तथा न व्याख्यातमिति न विद्मः / अङ्गं निमित्तम् / कस्य तदङ्गमित्युच्यत इत्याह-पुरुषेति // क्रमेण युगपद् वाऽपि द्वेधाप्यसंहतं द्रष्टव्यम् / कुतः पुनरसंहतविषयं पारार्थ्यमिष्टं सांख्यस्याख्यायत इत्याशङक्याह आत्मेति / असंहतोपकारकत्वं तावच्चक्षुरादीनां तेनैषितव्यमन्यथाऽऽत्माऽसिद्धेः / यच्च तदसंहतरूपं स एवात्मेत्यभिप्रायेणोक्तमसंहतस्यात्मन इति // 'परोऽर्थः प्रयोजनं सं०-A. B, C. D. P. H. E. N. 2 संचयरू० C. D 3 संघातत्वं- D 4 शयनादयः D ५०र्थ्यम् / इष्टासंहतपारार्थ्यं तस्य सांख्यस्य वादिन इष्टासंहतपारार्थ्यम् C. D 6 ०मानस्तु युग. D. 7 भवतीति D. चक्षुरादय इति संह० A. B. P. H. N