________________ 3.75.] : विरोधनिरूपणम् / 205 यद्येवमभावोऽपि न नियताकारः / कथमनियताकारो नाम ? यावता वस्तुरूपविविक्ताकारः कल्पितोऽभावः। ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते / नानियतम् / एवं नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः / एकात्मत्व-४ विरोधश्चायम् / ययोहि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः / आकारो यस्येति / एवं हि क्षणिकत्वादेरपि नियताकारत्वं स्यात् / तथाहि परमसङकुचितकालवतिरूपत्वेन नियताकारत्वात् / धर्मोत्तरोऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकमिति ब्रुवाणो नियताकार इत्यत्र षष्ठीतत्पुरुषमभिव्यनक्ति इतरथा 'क्षणिकत्वस्य हि सर्वो नीलादिः स्वरूपम्' इत्यभिदध्यादिति / एवञ्चा (च) क्षणिकस्यापि न नीलेऽभावावसायस्तस्य सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् / येन च क्षणिकं कल्पितं न तेन प्रतिनियतवस्त्वात्मक (क) कल्पितमत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोरुदासीनं नीलमात्रे प्रमाणम् / तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ निश्चेतुमशक्यमिति न्यायबलात्प्राप्तम् / एवञ्चाविरोधरूपविवेचके धर्मोत्तरे सत्यपि ये केचिद् द्विष्यमानजल्पमहोदधिप्रभृतयो विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकूर्वन्ति तैरयं 'कस्य चान्यत्राभावावसा[यः। यो नियताकारो न त्वनियताकारःक्षणिकत्वादिरिति' धर्मोत्तरस्य ग्रन्थो न दष्टो न चार्थस्य समीचीनिधिस (?)ज्ञात इति लक्ष्यते / यद्ययमपरिहारः, कस्तत्र परिहार इति चेत् / यथैतत्परिह्रियते तथा विशेषाख्यान एवास्माभिरभ्यधायीति तत एवापेक्षितव्यम् / इह पुनरप्रकृतत्वानोच्यत इति / यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत्, तस्यानियताकारत्वाद् इत्याशङ्कमान आह-यद्येवमिति / एवञ्चेदभ्युपगम्यते तदेत्यर्थात् / न केवलं क्षणिकत्वादीत्यपि शब्दः / कथमिति सिद्धान्ती। यावतेति तृतीयान्तप्रतिनिरूपको निपातोऽत्र यस्मादित्यस्यार्थे वर्तते / वस्तुरूपविविक्तो दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः / कल्पितग्रहणेनैतदाह-नाभावो नाम कश्चित् प्रमाणसिद्धोऽस्ति। केवलं कल्पिकया बुद्ध्या तथा समारोपित इति / यत एवं तस्माद् दृष्टं प्रमाणावगतं कल्पितम् आगमाश्रयेणान्यथा वा समारोपितम् / अन्यत्र ततोऽन्यस्मिन्, नीलादौ वानियतम् , न नीलाद्यात्मकं सत् तत्रैवाऽस[दित्यवसीयते। अममेव न्यायमन्यत्रादिशन्ना [71a]ह-एवमिति / यथाऽभावो नियताकार एव कल्पितो नानियताकार एवं नित्यत्वमपि सर्वकालावस्थायित्वलक्षणं नियताकारमेव ' कथं न निय० A. B. P, H. N. 2 त्राऽसदवसीयते A. B. D. P. H. E. N. 3 नित्यत्वे पिशा० A. P. H. 4 एकात्मकत्व A. B. C. D. P. H. E. N. परस्परेणाव. B.