________________ 204 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.75 भावनिश्चयात्। यथा च नीलं' स्वाभावं परिहरति, तद्वद् अभावाव्यभिचारि पीतादिकमपीति। तथा च भावाभावयोः साक्षाद्विरोधः,४ वस्तुनोस्त्वन्योन्याभावाव्यभिचारित्वाद्विरोधः। कस्य चान्यत्राभावावसायः ? यो नियताकारोऽर्थः,५ तस्य / न त्वनियताकारः, क्षणिकत्वादिवत् / क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् / अतो न नियताकारम् / यतः क्षणिकत्वपरिहारेण न किञ्चिद् दृश्यते / ननु सर्वमेव वस्तु सत्त्वरजस्तमोरूपेणकमिति कथमन्योन्यरूपपरित्याग इत्याह-इहेति / यद् व्यवच्छिद्यते यन्न परिच्छिद्यते / अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् / अवच्छिद्यमानपरिहारेण व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत्तथा। किम्पुनरिदं प्रसिद्धमित्याह-नीलमिति / चो यस्मात् / तदेव रूपं तद्रूपम्, तद्रूपमेव ताद्रूप्यम् तस्य प्रच्युतिरभावो व्यवहर्त्तव्यकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः / उपपत्तिमाह-तदव्यवच्छेद इति / यत एवं तस्मात् कारणात् / यदि भावाभावयोविरोधः, न तहि नीलपीतयोः स स्यादित्याहनीलादिति। तुविशेषद्योतकः / अभावाव्यभिचारित्वमेव साधयन्नाह-नीलस्येति / भवत्येवं नीलस्य पीतादावभावः, न तु तत्परिहारेण तद् व्यवस्थितमित्याह-यथेति। चो यस्मादर्थे / नीलं कर्तृ स्वाभावं स्वभावं (?) स च मानभावश्च (?) तं न व्यभिचरतीति तथा। एवं सति किं व्यवस्थितमित्याह-तथा चेति नीलस्य साक्षात्स्वाभावपरिहारप्रकारे तदव्यभिचारित्वादर्थान्तरपरिहारप्रकारे च सति / नतु (नु) यद् यदभावाव्यभिचारि य (त)त्तत्तेन विरुद्धचते / तस्य न तदात्मकत्वेनाभावावसायस्तादात्म्याभाव[1]वसायफलत्वादन्यस्य विरोधस्य / तहि क्षणिकत्वमपि नीलाभावाव्यभिचारित्वान्नीलेन विरुद्धयमानं न नीलात्मक स्यात् / तदपि नीलाभाववदेव अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् / तथा च यावत्क्षणिक तावन्नीलमिति कृत्स्ना त्रिलोकी नीलव स्यादिति मनसि निधायाह-कस्य चेति / तुशब्दार्थश्चकारः। परमु[70b] खेन प्रश्नं कृत्वा प्रश्न विसर्जनमाह-य इति / नियतस्य प्रतिनियतस्य वस्तुन आकारः स्वरूपमिति विग्रहीतव्यम् / एतदेव व्यतिरेकमुखेणाह-न स्विति / न पुनरनियतस्य सर्ववस्तुस्वरूपात्मकस्य / तदेव दर्शयति-क्षणिकत्वादिवदिति / आदिशब्दात्परमाणुमयत्वादिपरिग्रहः। अनेनैतदाह-अभावाव्यभिचारित्वेऽपि नियताकारेण तेन सम[म स्य विरोधो नानियताकारणेति / अनियताकारत्वमस्योपपादयन्नाह-क्षणिकत्वं हीति / हिर्यस्मादर्थे / सन्मात्रानुबन्धित्वात्क्षणिकस्येत्यभिप्रायः। यत एवमतः कारणात् / न त्वयमर्थ:-नियतः प्रतिनियत 'नीलमभावं A. B.C. P. H. 2 तमिव अभाववत्-टि० 3 मपि / तथा A. B. P. H. E. N. 4 विरोधौ A. क्षाद्विरोधः कः कस्य B. र्थः, न तु E. 6 कारोऽर्थः क्ष. A. B. P. H. E. N. 7 अतः D. E. 'प्रत्यन्तरे 'यतः' इति' इति D. प्रती टिप्पणं वर्तते।