________________ 3.75..] विरोधनिरूपणम् / 203 जनकभावो नाम 'द्विष्ठोऽस्ति / कारणपूर्विका तु कार्यवृत्तिः / अतो वास्तव एव / लद्वत् न निवृत्ते वस्तुनि कश्चित् द्विष्ठो नाम विरोधोऽस्ति / दहननिमित्तं तु शीतस्पर्शस्य ४क्षणान्तरजननासामर्थ्यम् / अतो' विरोधोऽपि वास्तव एव // उदाहरणमाह शीतोष्णस्पर्शवत् // 74 // शीतश्चोष्णश्च तावेव स्पशा तयोरिव / शीतोष्णस्पर्शयोहि पूर्ववद्विरोधो योजनीयः॥ द्वितीयमपि विरोध दर्शयितुमाह परस्परपरिहारस्थितलक्षणतया "वा ‘भावाभाववत् // 7 // परस्परस्य परिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः परस्परपरिहारस्थितलक्षणता तया / / इह यस्मिन् परिच्छिद्यमाने यद् व्यवच्छिद्यते तत् परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् / नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् / तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ / नीलात्तु यदन्यद्रूपं तन्नीलाभावाव्यभिचारि। नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भाद कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यस्य कार्यत्वेनाभिमतस्य वृत्तिः प्रवृत्तिर्भाव इति यावत् / तुर्विशेषणार्थः / यत एवमतो हेतोर्वास्तवः पारमार्थिकः / अन्यथा - कार्यकारणभावोऽप्यवास्तवोऽस्त्विति भावः / ननु किं कार्यकारणभावोऽपि द्विष्ठः सम्बन्धः कश्चिदिष्टो येनैवमुच्यत इति चेत् / न। कारणपूर्विकाया: कार्यवृत्तेर्वास्तवत्वात् / इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादेर्जननासामर्थ्य वास्तवमस्तु / न तु विरोध: सम्बन्ध इति चेत् / न / एतावतोऽन्यस्मात्कार्यकारणभावादस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् / अस्माभिरपीदश एव कार्यकारणभावविशेषो विरोध इत्युच्यत इति कथमयमवास्तवः स्यादिति // पूर्ववत्पूर्वोपदर्शितवत् // 'दृष्टोऽस्ति-A. B. P. H. E. N. 2 कार्यप्रवृत्ति:-A. B. C. D. P..H. E. N. / कश्चिदिष्टो A. B. P. H. N. कश्चिद् दृष्टो-E. ४क्षणान्तरासाम० A. B. P. H. E. N. 5 ततो-C. 6 शीतञ्चो० D. . 'वा' नास्ति-C. ८वा भाववत् B. P. H. 9 परस्पर A. B. P. परस्परपरि० H. E.. 10 'तया' नास्ति-C..