________________ 202 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.37. ... ये त्वाहुन विरोधो वास्तव इति त इदं वक्तव्याः-यथा न निष्पन्ने कार्ये कश्चिन्नन्य .. यदि येन सह यस्यैकदेशास्थितिर्न भवति तेन तस्य सहानवस्थानलक्षणो विरोधस्तहि सर्व एव परमाणवः सप्रतिघत्वादन्योन्यदेशपरिहारेण वर्तन्त इति सर्वेषामेव परमाणनामयं विरोधः किन्न व्यवस्थाप्यत इत्याशङक्याह-सन्तानयोरिति / चोऽवधारणे / हेतुमाहइतरेतरेति / यतः सत्स्वपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानाऽनिवर्तनं तेषाम् / ननु यद्यालोकान्धकारयोनिवर्त्यनिवर्त्तकभावेन विरोधस्तहि प्रदीपमल्लिकातलवत्यैववरकात्माण निवर्ती(?) अन्धकारस्तत्समीपवर्तिनाऽऽलोकेन किं न निवर्त्यत इत्याशङक्याहगतिधर्मेति / चो यस्मादर्थे / तदिग्वतिन एवेत्यर्थाद् द्रष्टव्यः / यतो यद्दिगमिमुखगतिरालोकस्तदाक्रम्यमाणदिग्वर्तिन एव विरोधिसन्तानान्निवर्तयति / ततस्तस्मात्कारणात् / कुतो न निवर्तयतीत्याह-अन्धकारेति / अन्धकाराकान्तायामित्यनेन दिशोऽन्त(ऽन्ध)काराकान्तत्वमालोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् / किन्तर्हि ? वास्तवानुवादः कृतः / या सा दिगन्धकाराकान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्यादित्यर्थः / अन्यथाऽन्धकाराकान्तत्वमेव तस्य न स्यात् / आलोकेन समीपवर्तिनाऽन्धकारापनयासम्भवादिति कथमेनं संगच्छेत / अयमत्र परमार्थ:-दृश्यते तावत्काचिदन्धकारमात्रा निकटस्थितेनाप्यालोकेनाऽनिवर्तिता। दृष्टश्चान्यस्याववरकवर्तिनोऽन्धकारप्रचयस्योच्छेदः / तस्मादालोकस्यालोकान्तरजननासामर्थ्यमन्यत्र तु सामर्थ्य तत्त्वचिन्तकैरचिन्त्यत्वात्प्रतीत्यसमुत्पादस्य कल्प्यत इति / अत एव ययो. जन्यजनकभावेन निवर्त्यनिवर्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवय॑न्धकारतदासन्नालोकयोर्नविरोधः / प्रायोवृत्त्या तु तो विरोधेनावबुद्ध्येते। अतएव पूर्वं 'दूरस्थयोविरोधाभावाच्च निकटस्थयोरेव निवर्त्यनिवर्त्तकभावः' इत्युक्तम्, न तु 'निकटस्थयोनिवर्त्यनिवर्तकभाव एव' इति / सति निवर्त्यनिवर्तकत्वे 'निकटस्थयोरेव, न तु निकःस्थयोरवश्यं निवर्त्यनिवर्तकभावः' इति च व्याख्यातमेव / सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतमेव च विरोधं स्वयं प्रतिपादितमाचार्यस्याप्यभिप्रेतमेतदिति दर्शयन्नाह-कारणरिति (णेति)। कारणस्य निवर्तयितव्यस्य शीतस्पर्शादेर्यदसामर्थ्य सजातीयक्षणनिर्माणेऽशक्तत्वं तत्र यद्धतुत्वं निवर्तकस्य तत्कृतं तत्प्रयुक्तम् / अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता प्रकाश[70a]यताऽचार्येणेत्यर्थात् / ये पूनः शान्तभद्रादयः-"न तावदालोकादेरुत्पन्नेनान्धकारादिना विरोध:, तस्यातीतत्वेनासत्त्वात् / न चोत्पित्सुना सह, तस्याप्यनागततयाऽसत्त्वात् / नाऽपि वर्तमानेन, तस्यापि तज्जन्मतयाऽविरोधित्वात् / तस्मान्न विरोधो नाम द्विष्ठः सम्बन्धोऽस्ति / किन्तु काल्पनिक एव / अत एवाचार्येण विरोधगतिरित्यभिधायि / न तु विरोध इति ।"-इति व्याख्यातवन्तस्तान् वचनभङ्गचा निराचिकीर्षराह-ये त्विति /