________________ 3.73.1 विरोधनिरूपणम् / 201 क्षणानाम् / यतः सत्सु बहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोनिवर्त्य निवर्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोधः, इतरेतरसंतानानिवर्तनात् तेषाम् / गतिधर्मा चालोको यां 'दिशमात्रामति तदिग्वतिनो विरोधिसन्तानान् निवर्तयति / ततोऽपवरकैकदेशस्था प्रदीपप्रभाऽन्धकारनिकटवतिन्यपि नान्धकारं निवर्तयति, अन्धकाराकान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यात् / कारणासामर्थ्यहेतुत्वकृतं४ सन्ताननिष्ठमेव विरोधं दर्शयता भवत इति कृतम् / भवतः प्रबन्धेन प्रवर्तमानस्य शीतस्पर्शसन्तानस्याभावोऽन्यस्योष्णसन्तानस्य भावे सतीति / योग्यो भवति / द्वितीयेऽन्धकारदेशालोकोत्पादकक्षणविरुद्धानन्धकारानसमर्थान् जनयति / तृतीये त्वसमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् / तथा शीताक्रान्तदेशमध्योत्पन्नेनोष्णस्पर्शन स्थितधर्मणा तथैव शीतस्पर्शो निवर्तनीय इत्यपि द्रष्टव्यम् / नन च येनालोकक्षणेन सन्निपति (पत)तान्धकारक्षणोऽसमर्थो जन्यते न तेन तद्देश आक्रम्यते / येन चाक्रम्यते न तेनासमर्थो जन्यते / तथा योऽन्धकारस्तत्सन्निपतनकालभावी नासौ तविरुद्धः / यश्चासमर्थस्तजन्मा सोऽपि तज्जन्यत्वादविरोधी। ये चानुत्पत्तिधर्माणस्तेऽप्यसत्त्वात्कथं तैविरुद्धा इत्याशङ्कयाह-जन्यजनकभावादिति / चोऽवधारणे सन्तानयोरित्यस्यानन्तरं द्रष्टव्यः / अयमाशयः-जन्यजनकभावविशेष एवायं निवर्त्य निवर्त्तकभावः / अर्वाग्दी च न क्षणयो: कार्यकारणभावं विभावयितुं विभवति / अपि तु सन्तानयोस्ततोऽन्धकारक्षणप्रबन्धमेकत्वेनावसाय निवर्त्य विरुद्धमध्यवस्यालोकक्षणप्रबन्धं चैकत्वेनाधिमुच्य तद्विरोधिनमधिमुञ्चतीति / . .. परमार्थदृष्टया चेदं क्षणोल्लेखेनाख्यायते / न तु लोकस्थित्याश्रयेण / न तर्हि पर.मार्थतो विरोध इति चेत् / किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तुमध्यवसितो भवानिति ? एतच्चानन्तरमेव निरूपयिष्यते / नन न सन्तानव्यतिरेकेण सन्तानो नामान्यः सम्भवी / तत्कथं 69b] द्वयोः सन्तानयोविरोध उच्यत इत्याह यद्यपीत्यनुमतौ। यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोरयं वक्ष्यमाणकः। उपपत्तिमाह-यत इति। यस्माद् गतक्षणं (?)प्रबन्धस्याभावानिवृत्तिधर्मकत्वम् / तथा यतः सत्स्वालोके (क)क्षणेषु प्रवृत्ता अप्यन्धकारक्षणान्नि(णा निवृत्तिधर्माणो भवन्तीति द्रष्टव्यम्। अन्धकारादिक्षणप्रबन्धस्य 8 (आलोकादिक्षणप्रबन्धस्य) आलोकादिक्षणप्रबन्धेन सह विरोध इति प्रकरणार्थः / . दिशं काम C. 2 तद्विवर्तिनः A. / अन्धकारायाक्रान्तायां A. 4 ०हेतुकृतं-A. P. H. E. N. 5 भवतेति P. H. न्धेन वर्त० A. B. D. P. H. E.N. * •स्य सन्तान० C. कोष्ठकान्तर्गतः पाठः व्यर्थः-सं० /