________________ 200 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 73. यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकः क्षणः उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ उत्पन्नः। ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वम् / अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये भणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्तते / जन्यजनकभावाच्च ४संतानयोविरोधो न क्षणयोः / यद्यपि च न सन्तानो नाम वस्तु तथापि सन्तानिनो वस्तुभूताः। ततोऽयं परमार्थः-न क्षणयोविरोधः / अपि तु बहूनां वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानमाक्रामति, तद्देशो भवति निवर्तक इत्यर्थात् / इह कश्चिन्निवर्तक आलोको यामेव दिशमाक्रामति तदिग्वर्तिनमेव स्वविरुद्धं गतिकमेणव निवर्तयति / कश्चित्पुनविरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वतिनं विरुद्धं झटिति निवर्तयति / तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्तकत्वमित्याह-तंत्रेति वाक्योपक्षेपे। देशमभिमतं स्थानमाक्रामस्तद्देशो भवन्नालोक इत्यर्थः / अन्धकारनिरन्तरमन्धकाराव्यवहितम् / आलोकसमीपवर्तिनमिति तज्जन्यमानालोकसमीपवत्तिनम् / असमर्थमन्धकारान्तरजननाशक्तं जनयति / यत एवं ततस्तस्य जनकत्वम् / ततस्तस्मात्समीपवालोक इति गतिधर्मेति द्रष्टव्यम् / असामर्थ्य चो[69a]पादेयक्षणोपजननं प्रतीति प्रस्तावादवसेयम् / असमर्थे तस्मिन्नन्धकारे निवृत्ते स्वरसतोवि (नि)रुद्धे सति / सोऽसमर्थान्धकारक्षणदेशो देशो यस्य स तथा जायते आलोकः। इतिस्तस्मात् / एवमनन्तरोक्तेन क्रमेण परिपाटया गतिधर्मालोकस्तद्देशाक्रमणाय सन्निपतन्नसमर्थावस्थाऽऽधानयोग्यो भवति / द्वितीये क्षणेऽसमर्थं जनयति / तृतीये तद्देशो जायत इत्यनन्तरोक्तः क्रमो विभज्य योजनीयः / अममेव क्रममन्यत्रादिशन्नाह तथेति / यथा-आलोकान्धकारयोनिवर्त्यनिवर्तकभावस्तेन प्रकारेण उष्णस्पर्शन गतिधर्मेण दृष्टान्तवशाद् द्रष्टव्यम् / गतिधर्मणस्तावदालोकस्यायं क्रमः / विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्याहयदेति / विशेषणार्थः / यतः क्षणादालोकस्य जनकः क्षण उत्पद्यते। कीदृशस्यालोकक्षणस्येत्याह-अन्धकारेति / अन्धकारदेशस्य. निवाऽन्धकारसम्बन्धी देशो यस्य स तथा तत एव तमोदेशालोकोत्पादक्षणयोरेकसामग्र्यधीनतामाह। यतोऽन्धकारदेशालोकहेतूत्पादकस्य क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोरविद्यमानं सजातीयजन्मनि सामर्थ्य यस्या अवस्थाया अन्धकारसम्बन्धिन्याः सा तथा। तज्जनकत्वमेवालोकस्येति प्रकरणात् / / अत्रापि तृतीये क्षणे परं निवर्तकत्वमिति दर्शयन्नाह-अतश्चेति / चोऽवधारणे। अत्रापि प्रथमे क्षणेऽन्धकारदेशालोकहेतूत्पादकःक्षणःसमुद्भवन्नेवान्धकारासमर्थावस्थातद्देशालोकहेतुजनन " 1 जनकक्षणः A. B. P. H. E. N. 2 अन्धकारान्तरासमर्थः A. अन्धकारान्तराजननासमर्थ: B.C. ततोऽसामर्थ्याव. B. 4 संतनयोः A.