________________ विरोधनिरूपणम् / / तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित्कर एव। तथा हि-शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्ति प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः। तस्माद्धतुवैकल्यकारी विरोद्धो जनक एक निवर्त्यस्य / सहानवस्थानविरोधश्चायम्। ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहर्तव्यम् / दूरस्थयोविरोधाभावाच्च निकटस्थयोरेव निवर्त्यनिवर्तकभावः। तस्माद्यो यस्य निवर्तकः स तं यदि परं तृतीये क्षणे निवर्तयति। प्रथमे क्षणे सन्निपतन्नसमर्थावस्थाधानयोग्यो' भवति / द्वितीये विरुद्धमसमर्थ करोति। तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति / तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामन् / यदाऽन्धकारनिरन्तर-४ मालोकक्षणं जनयति तदाऽऽलोकसमीपवतिनमन्धकारमसमथं जनयति / ततोऽसामर्थ्य तस्य यस्य समीपवालोकः / .असमर्थे निवृत्ते तद्देशो जायत आलोक इत्येवं क्रमेणाऽऽलोकेनान्धकारोऽपनेयः। तथोष्णस्पर्शन शीतस्पर्शो निवर्तनीयः / किमत: सिद्धमित्याह-तथा चेति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति / किञ्चित्करत्वमेव तथा हीत्यादिना दर्शयति / यथा चास्य जनकत्वं तथाऽनन्तरमेव व्यक्तीकरिष्यते / . ननु किं कतिपयक्षणसहितयोः पश्चान्निवर्त्यनिवर्त्तकभावेन विरोधोऽथवाऽन्यथेत्याशडक्याह-सहेति / चो यस्मात् / ततस्तस्मात् / न केवलं बहुषु क्षणेष्वित्यपि शब्दः / सहावस्थानमेकत्र स्थितिः। निकटावस्थानं तु न परिहर्त्तव्यमिति बुद्धिस्थम् / परिहर्त्तव्यं नाङ्गीकर्तव्यम् / तयोरेकस्मिन्नपि क्षणे सहस्थित्यभावात् कथमेवमङ्गीक्रियते ? अत एव न सहस्थितयोः पश्चाद् विरोध इति वा, कृतमनेन / यद्येवं क्वचित्प्रदेशे वर्तमान आलोकस्त्रिलोकीव्यवस्थितानि तमांस्यनेनैव क्रमेणापनयेदिति न क्वचित् तमांस्यवतिष्ठेरन्नित्याह-निकटस्थयोरिति ययोनिवर्त्यनिवर्तकभावो दृष्टस्तयोनिकटस्थयोरेव न तु निकटस्थयोरवश्यं निवर्त्य निर्वतकभाव इत्यस्यार्थो द्रष्टव्यः। तयोरेव कथं तथाभाव इत्याशङकायां दूरस्थयोरिति योज्यम् / चोऽवधारणे / यतः किञ्चित्करस्यैव निवर्तकत्वं तस्माद् हेतोः परं प्रकृष्टं यथा भवति / एतदेवोपपादयन्नाह-प्रथम इति सन्नियतन्निकटीभवनिवर्तक इति प्रकरणात् / असमर्था चोपादेयक्षण निर्माणे अशक्तावस्था यस्यान्धकारक्षणस्य तस्याऽऽधानमुत्पादनम्, तत्र योग्यः समर्थो भवति / द्वितीये क्षणे इत्यनुवर्तते। विरुद्धमन्धकारमसर्थ सजातीयक्षणान्तरजननाक्षमं करोति / . तृतीये क्षणेऽऽसमर्थे तस्मिन् ' स्थाधाने योग्यो D. ०स्थानयोग्यो A. B. P. H. E. 2 तद्देशमा० C. D. ०माकामयन B.N. . * कारे निर० A. B. P. H. E. N. 1 असमर्थ्य A. असामयें P. H. E.N. तादृशो A. B. P. H. N.