________________ 198 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.72. यतोऽदृश्यविषयोऽनुपलम्भः' संदेहहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात् सर्वज्ञात् वक्तृत्वादेावृत्तिः संदिग्धा // ___वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेपि व्यतिरेको न सिध्यति, संदेहात् // 71 // नानुपलम्भात् 'सर्वज्ञे वक्तृत्वमसद् ब्रूमः / अपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् / एतन्न। सर्वज्ञत्ववक्तृत्वयोविरोधो नास्ति। विरोधाभावाच्च कारणाद् व्यतिरेको न सिध्यति-इति संबन्धः / व्याप्तिमन्तं व्यतिरेकं दर्शयति यः सर्वज्ञ इति। साध्याभावरूपं सर्वज्ञत्वमनद्य ४'स वक्ता न भवति' इति साधनस्य वक्तृत्वस्याभावो विधीयते / तेन साध्याभावः साधनाभावे नियतत्वात् 'साधनाभावेन व्याप्त उक्त इति / व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् / न चास्ति विरोधः। तस्मान्न सिध्यतीति / कुत इत्याहसंदेहात् / यतो विरोधाभावः, तस्मात् संदेहः। सन्देहाद् व्यतिरेकासिद्धिः // .. कथं विरोधाभावः ? द्विविधो हि पदार्थानां विरोधः // 72 // हीति यस्माद् द्विविध एव विरोधो नान्यः, तस्मान्न वक्तृत्वसर्वज्ञत्वयोविरोधः // कः पुनरसौ द्विविधो विरोध इत्याह अविकलकारणस्य भवतोऽन्यभावेऽभावद् विरोधगतिः // 73 // . अविकलकारणस्येति / अविकलानि समग्राणि कारणानि यस्य स तथोक्तः। यस्य कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः। तदर्थम् अविकलकारणग्रहणम् / ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम् / तत् कुतो विरोधगतिः? एवं तहि अविकलकारणस्यापि यत्कृतात् कारणवैकल्याद् अभावस्तेन विरोधगतिः। . यस्येत्यादिनाऽविकलकारणस्य फलं वर्णयति। एवं तहत्युित्तरम् / तहि तस्मिन् काले। एवं बोद्धव्यमित्यर्थः। अपि सम्भावनायाम् / न्यायबलादेवं सम्भावयाम इत्यर्थः / विरोधस्य गतिः प्रतिपत्तिः / ,' संशयहे. A. P. H. E. N. २०भात् संदिग्धे वक्तृ० B. 'एतन्न' नास्ति E. 4 न स वक्ता भवति A. P. H. E. N.. साधर्म्यभावेन B.. 6 सिध्यति / कुतः A. P. H. E. N. 7 हिर्यस्मादर्थे द्विवि.D. हिर्यस्मात् -B. 80 भावः / अभा० B. P. H... 9 गतिरिति-C.