________________ 3.71.] अनैकान्तिकलक्षणम् / 197 ___ अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे। ततोऽनकान्तिकता // तथा अस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव // 6 // यथा चास्य रूपस्यासिद्धावनैकान्तिकस्तथा अस्यैव विपक्षेऽसत्वाख्यस्य' रूपस्य संदेहेऽनैकान्तिकः // तमुदाहरति यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः // 66 // यथेति। असर्वज्ञ इत्यसर्वज्ञत्वं साध्यम् / कश्चिद्विवक्षित इति वक्तुरभिप्रेतः पुरुषो धर्मी। रागा आविर्यस्य द्वेषादेः स रागादिः। स यस्यास्ति स रागादिमान् इति द्वितीयं साध्यम्। २वाग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् / ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तत्वं-वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनैकान्तिकः। सन्दिग्धा विपक्षाद् व्यावृत्तिर्यस्य स तथोक्तः। असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः / तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् / अतो न ज्ञायते किं वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनकान्तिकं वक्तृत्वम् / ... ननु च सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वज्ञे संदिग्धम् ? अत एव ६'सर्वज्ञो वक्ता नोपलभ्यते' इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन "संदेहहेतुत्वाद् / ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा // 70 // . 'सर्वज्ञो वक्ता नोपलभ्यते' इत्येवंप्रकारस्य–एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् / कुत इत्याह-अदृश्य आत्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् / द्वेषादेरित्यादिग्रहणेन मोहादेर्ग्रहणम् // अत एवानुपलम्भमात्रादेवेति सिद्धान्ती / अमुमेवार्थ मूलेन संस्यन्दयन्नाह-सर्वज्ञ इति / तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वादिति / हेतुपञ्चमीमिदानी व्याचष्टे-- यत इति // १०ख्यरूपस्य C. 2 वेति ग्रह. C. D. मत्त्वे च साध्ये C. 4 संदिग्धवि० B. 5 किं' नास्ति A. B. D. P. H. E. N. 6 सर्वत्रैकदेशे वा सर्वज्ञो B. P. H. 7 संदेहे हेतु B. P. H. E. 8 स्वादसर्व० B. D. P. H. E. 9 जातीयकस्य-B. 10 अदृश्यात्मा A. B. P. H. E. N.