________________ तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 67. तमुदाहरति यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः // 67 // यथेत्यादिना। अनित्यत्वमादिर्यस्याऽसौ' अनित्वादिको धर्मः / आदिशब्दावप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं 'नित्यत्वं च परिगृह्यते / प्रमेयत्वम् आदिर्यस्य स प्रमेयत्वादिकः / आदिशब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्तत्वं च 'गृह्यते। शब्दस्य धर्मिणोऽनित्यत्वादिके धर्म साध्ये प्रमेयत्वादिको धर्मोऽनकान्तिकः / चतुर्णामपि हि विपक्षेडसत्त्वमसिद्धम् / तथाहि-अनित्यः शब्दः प्रमेयत्वात्, “घटवद्-आकाशवदिति प्रमेयत्वं सपक्षविपक्षव्यापि। अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात्, विद्युदाकाशवद् घटवच्च-इत्यनित्यत्वं सपक्षकदेशवृत्ति-विद्युदादावस्ति, नाकाशादौ; विपक्षव्यापि-'प्रयत्नानन्तरीयके सर्वत्र भावात्। अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवद् विद्युदाकाशवच्च-इत्यनित्यत्वं विपक्षकदेशवृत्ति-विधुदादावस्ति नाकाशादौ / सपक्षव्यापि सर्वत्र प्रयत्नानन्तरीयके भावात। नित्यः शब्दोऽमूर्तत्वाद् आकाशपरमाणुवत्,१२ कर्मघटवच्च / इत्यमूर्तत्वमुभयकदेशवत्ति-उभयोरेकदेश आकाशे कर्मणि च वर्तते / परमाणौ तु सपक्षकदेशे घटादौ च विपक्षकदेशेन वर्तते / मर्तत्वात् घटपरमाणुप्रभृतीनाम् / नित्यास्तु परमाणवो वैशेषिकैरभ्युपगम्यन्ते / ततः सपक्षान्तर्गताः। एकस्मिन्ना (न्न)न्तेऽवतिष्ठते-नित्यो वाऽनित्यो वेत्यादिरूपेण / स प्रयोजनमस्य स तथा / न तथाऽनकान्तिकः॥ विपक्षेऽसत्त्वमसिद्धं सर्वत्रेति द्रव्यम् / [68b] "सदकारणवन्नित्यम्" [वै० सू० 4. 1. 1.] इति नित्यलक्षणयोगाग्नित्या इष्टाः परमाणवः // १०र्यस्य सोऽनि० A. B. D. P. H. E. N. 2 'नित्यत्वं' नास्ति B. 3 गृह्यन्ते B. नास्ति 'हि'-A. B.P: H. N. 5 प्रमेयत्वात्, आकाशवत् घटवदिति-A. B. D. P. H. E. N. 6 काशघटव०A. 7 इत आरम्भ 'नाकाशादौ' पर्यन्तः पाठो नास्ति B. 80 व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् C. 1 अनित्यत्वस्य-टि. " व्यापि सपक्षे सर्वत्र C. D. 11 साध्यः सह क्रमात् योज्यते-टि. 12 नित्यत्वस्य-टि० "वैशेषिकरप्यभ्युप०.