________________ 3.66.]. :: अनक्रान्तिकलक्षणम् / .195 तदेवमेकस्य' रूपस्य धर्मिसंबद्धस्यासिद्धावसिद्धो हेत्वाभासः // तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः // 66 // 'तथाऽपरस्यैकस्य रूपस्य-असपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः / , एकोऽन्त एकान्तो निश्चयः। स प्रयोजनमस्येत्यकान्तिकः५ / नैकान्तिकोऽनैकान्तिकः / यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि तु तद्विपरीतः संशयः। साध्येतरयोः संशयहेतुरनैकान्तिक उक्तः // च न समवाय इति / निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश्चामूर्त्तत्वादिति सिद्धान्तस्थितेः। किमुतेति निपातः किम्पुनरित्यस्यार्थे वर्तते / .. आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्याशङक्य भेदमुपपादयन्नाह-पूर्वमिति / अयमर्थः-पूर्व परमार्थतो विद्यमानोऽपि हेत्वाधाररूपतया सन्देहादनिश्चित इति तद् धर्म्यसिद्ध उक्तः / सम्प्रति तु सर्वथैवासौ मित्वेनासिद्ध उच्यत इति / धर्म्यसिद्ध एवाश्रयासिद्ध उच्यत इति / तेन नाश्रयासिद्धी नाम अन्यः प्रभेदः / - अन्यथासिद्धस्त्वसिद्ध एव न भवतीति न तस्यान्तर्भावश्चिन्त्यते। तथा ह्यन्यथासिद्ध इति कोऽर्थः ? किमन्यथैव सिद्ध आहोस्वित अन्यथाऽपि सिद्धः ? ननु यद्यन्यथैव, तदा जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव / अथान्यथाऽपि सिद्धः, तदैतस्मादन्येनापि प्रकारेण सिद्धोऽयमित्ययमपि भविष्यति। न च साध्यमिति सन्दिग्धविपक्षव्यावृत्तिरनै कान्तिक एवेति // - अनेकान्तिकशब्दस्य व्युत्पत्तिमाह-एक इति / एक इति ब्रुवन्नेकस्ता(कश्चा)सौ साध्यलक्षणेकार्थविषयत्वादन्तश्च कथावसानहेतुत्वादाकाङक्षोपशमहेतुत्वाद् वेति दर्शयति / समस्तं पदमर्थञ्चाह-एकान्तो निश्चय इति / साध्येतरयोरेकतरनिश्चयफल इत्यर्थः / तद्विरुद्ध चायं ना द्रष्टव्यः / यस्मादित्यादिनैतदेव स्फुटयति / यस्माद्घतोरित्यपादाने चेयं पञ्चमी / किन्तु तदविपरीतो निश्चयविपरीतः यत्तदोनित्यमभिसम्बन्धात्स इति द्रष्टव्यम् / क्व संशय इत्याह-साध्येति / . .... यद्वा कथमनकान्तिको भवतीत्याह-यस्मादिति हेतुपञ्चमी। ऐकान्तिकप्रतिषेधेनान्यः प्रतिपत्तिहेतुरुक्तो नत्यभिप्रायेणाह-संशयहेतुरिति / तेन नासिद्धस्य तथात्वप्रसङ्गः / अथवैकान्तनियतत्वादेक इत्यन्त इति च निश्चयः प्रोक्तः / तथाहि सर्वोऽयं पदार्थभेद - 'सर्वेष्वपि असिद्धेषु एकं रूपं पक्षधर्मत्वमसिद्धम्-टि० ... 2 धर्मिबद्ध० A. P. B. H. 3 तथा पर० A. B. P. H. विपक्षे-टि० . ५०मस्यैकान्तिकः.C.D...