________________ 194 तृतीयः परार्थानुमानपरिच्छेदः / [3.64. ' कथमयमाश्रयणासिद्ध इत्याह तदापातदेशविभ्रमे // 64 // . तदापात' इति / तस्य केकायितस्यापात आगमनं तस्य देशः स उच्यते यस्माद देशादागच्छति केकायितम् / तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः / निरन्तरेषु बहुषु निकुञ्जषु सत्सु यदा केकायितापातनिकुञ्ज विभ्रमः- किमस्मानिकुञात् केकायितमागतम्, आहोस्विदन्यस्मादिति', तदायमाश्रयणासिद्ध इति // धर्मिणोऽसिद्धावप्यसिद्धत्वमुदाहरति-- . धर्म्यसिद्धावप्यसिद्धः-यथा सर्वगत अात्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् // 6 // यथेति। सर्वस्मिन् गतः स्थितः सर्वगतो व्यापीति यावत् / च्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम्। सर्वत्र देश उपलभ्यमानाः सुखदुःखेच्छाद्वषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् / न गुणा गुणिनमन्तरेण वर्तन्ते / गुणानां गुणिनि समवायात् / निष्क्रियश्चात्मा। ततश्च यदि व्यापी न भवेत् कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्येरन् / तस्मात् सर्वगत आत्मा। तदिह बौद्धस्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्येत्यसिद्धौ हेत्वाभासः। पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः। संप्रति त्वसिद्धो धर्म्युक्त इत्यनयोविशेषः / . षड्जादिमत्त्वादिति / उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोईयोरप्यनिश्चिसत्वात्केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति // पर्वतोपरिभागेन तिर्यग्निर्गतेनेति च भूभाग इति चोपलक्षणं द्रष्टव्यम् / न तु तथाविध एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्यत्वात् // . यस्माद् देशादागच्छतीति वचनव्यक्त्या चोत्पन्न: शब्दश्चतुर्दिवकं शब्दसन्तानं जनयति, स च जलतरङ्गन्यायेन श्रोत्रदेशमायतो गृहीत इति दर्शयति // द्वेषादीत्यत्रादिग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणम् / “सामान्यवान् गुणः संयोगविभागयोरनपेक्षो न कारणम्” इति गुणलक्षणयोगाद् गुणाः / समवायात्समवेतत्वात् / प्रतिषिद्धानां ' कथमाश्र. A. B. P. H. E. 2 तदधात-A. .. 3 आगमः C. 4 केकायितापातविभ्रमः A. P. H. 5 आहोस्विदस्मादिति-A P H N. . . 6 तादाश्रय A. B. P. H. E. N. 7 धर्मिति (पि) हेतोः सम्बन्धस्य सत्त्वस्येत्यसिद्धौ-टिं..