________________ 3.63. ] असिद्धहेत्वाभासलक्षणम् / 193 हेतुर्वर्तमानो गमकत्वेनाश्रीयते। तस्याश्रयणस्य संदेहे संदिग्धः // 'आत्मना संदिह्यमानमुदाहर्तुमाहयथा बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः संदिग्धासिद्धः // 62 // यथेति / बाष्प आदिर्यस्य स बाष्पादिः। तद्भावेन बाष्पादित्वेन संदिह्यमानो भूतसंघात इति भूतानां पृथिव्यादीनां संघातः समूहः / अग्निसिद्धी-अग्निसिद्धयर्थम् उपादीयमानोऽसिद्धः। एतदुक्तं भवति–यदा धूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदाऽसिद्धः, गमकरूपानिश्चयात् / धूमतया निश्चितो वह्निजन्यत्वाद् गमकः / यदा तु संदिग्धस्तदा न गमक इत्यसिद्धताख्यो दोषः॥ आश्रयणासिद्धमुदाहरति ... यथेह निकुञ्जे मयूरः केकायितादिति // 63 // यथेति / इह निकुञ्ज इति धर्मी। पर्वतोपरिभागेन तिर्यनिर्गतेन प्रच्छादितो भूमागो निकुञ्जः। मयूर इति साध्यम् / केकायितादिति हेतुः / केकायितं-मयूरध्वनिः॥ न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः। न केवलं पूर्वमेवेत्यपिशब्दः / अनित्यत्वोत्पत्तिमत्त्वयोर्यत्साधनं प्रमाणं तस्य (स्याऽ) ज्ञानादनिश्चयात् / यदीत्यादिनैतदेव द्रढयति // स्वयमित्यात्मन इति षष्ठ्यन्तस्यानुवर्तते / हेतोश्च प्रकृतत्वाद् हेतोरिति विवृणोति / आश्रीयते साधनत्वेनोपादीयते अस्मिन्निति // यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्यभिप्रायेणाह-आत्मना सन्विह्यमानमिति / आदिशब्देन नीहारादिपरिग्रहः / ननु यद्यसौ परमार्थतो धूमस्तदा सन्देहेऽपि किं न गमक इत्याह-एतदुक्तं भवतीति / किं तद् गमक रूपं येनानिश्चित इत्याह-वह्नीति / यदा त्वित्यादिनोक्तमेव स्पष्टयति / तवा न गमक इति ब्रुवतश्चायमाशयो वह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदाऽनिश्चितत्वात् / एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश्चोक्तो द्रष्टव्यः / [68a] यथा षड्जादिसत्त्वसन्देहे मयूरशब्दोऽयं षड्जादिमत्त्वे सति अवर्णात्मकत्वात् / अवर्णात्मकत्वे सति 'स्वात्मना A. B.C. D.P. E. H. N. 2 'संदिग्धासिद्धः' नास्ति C. . वह्निकार्यत्वाद्ग० C. 4 निगुञ्जे-C. 25