________________ 192 तृतीयः परार्थानुमानपरिच्छेदः। अवेतनाः सुखादय इति साध्य उत्पत्तिमत्वम्, अनित्यत्वं' वा सांख्यस्य स्वयं वादिनोऽसिद्धम् // 60 // अचेतनाः सुखादय इति-सुखमादिर्येषां दुःखादीनां ते सुखादयः। तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम्। य उत्पत्तिमन्तोऽनित्या वा ते न चेतनाः / यथा रूपादयः। तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः / चैतन्यं तु पुरुषस्य 'स्वरूपम् / अत्र चोत्पत्तिमत्त्वमनित्यत्त्वं वा पर्यायेण हेतुर्न युगपत् / तच्च द्वयमपि सांख्यस्य वादिनो न सिद्धम् / परार्थो हि हेतूपन्यासः। तेन यः परस्य सिद्धः स हेतुर्वक्तव्यः। परस्य चासत उत्पाद उत्पत्तिमत्त्वम्, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् / तादृशं च द्वयमपि सांख्यस्यासिद्धम् / इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानाद् वादिनोऽसिद्धम् / यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः ४प्रामाण्यं वादिनो 'ज्ञातं स्याद् तदा वादिनोऽपि सिद्धं स्यात् / / ततःप्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् // . संदिग्धासिद्धव शयितुमाह तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः // 6 // स्वयमिति हेतोरात्मनः संदेहेऽसिद्धः। तदाश्रयणस्य "वेति-तस्य हेतोराश्रयणम्आश्रीयतेऽस्मिन हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभतः साध्यधर्मी कथ्यते। तत्र हि तस्यैव रूपस्य / विज्ञानसत्तया व्याप्तं यदिति यस्मिन् मरणेऽवश्यं प्रागासीद् विज्ञानम्, तद विज्ञानसत्तया व्याप्तमुक्तम् / तच्च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् / दिगम्बरस्यापि कथं सिद्धमित्याह-अज्ञानादिति / चैतन्याव्यभिचारिणो मरणस्याज्ञानात् / अनेनैतदाहयदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद् भेदेन विवेचितं स्यात केवलमज्ञानात्तत्सिद्धमुच्यत इति / ... एतदेवाह-यदा विति। एवमुत्तरत्रापि द्रष्टव्यम् / - सुखमनुकूलवेदनीयम्। आदिशब्दादिच्छाद्वेषादिपरिग्रहः / पुरुषस्य सांख्यपरिकल्पितस्यात्मनः। 'पुरुषश्चेतयते बुद्धिरध्यवस्यतीति' सिद्धान्तात् / सांख्यस्य संख्यया पञ्चविशतितत्त्वानीत्यनया व्यवहरतीति सांख्यो योगरूढिंश्चैषा, कपिल एव तथोच्यते / ननूत्पत्तिमत्त्वं कृतकत्वम् वा स्वसिद्धमेव तेनोपन्यसनीयमुपन्यस्तं च / तत्कथं वाद्यसिद्धतेत्याह-परार्थो हीति / हिर्यस्मात् / परार्थः परप्रतिपत्तिप्रयोजनः / निरन्वयः सर्वथोच्छेदः / - अनित्यं B. P. H. E. N. 2 स्वं रूपम्-A. B. P. H. N. 3 परार्थादि हे. B. विज्ञानं C. - 6 'तदा' नास्ति A. P. H. EN. ७०स्य चेति A. B.C.D. P. H. E. .. आश्रयभूतसा. E, ...