________________ 3.59.] असिद्धहेत्वाभासलक्षणम् / तविन्द्रियम् / आयुरिति लोके प्राणा 'उच्यन्ते / न चागमसिद्धमिह युज्यते वक्तुम् / अतः २प्राणस्वभावमायुरिह। तेषां निरोधो निवृत्तिः। स लक्षणं तत्त्वं यस्य तत् तथोक्तम् / तथाभूतस्य मरणस्य अनेन बौद्धन प्रतिज्ञातत्वात् / _ यदि नामवं तथापि कथमसिद्धमित्याह-तस्य च विज्ञानादिनिरोधात्मकस्य उतरुष्वसंभवात्। सत्तापूर्वको निरोधः। ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं नेच्छेत् / तस्माद् विज्ञानानिष्टनिरोधोऽपि नेष्टस्तरुष / - ननु च शोषोऽपि मरणमुच्यते। सच तरुषु सिद्धः। सत्यम्। केवलं विज्ञानसत्तया४ व्याप्तं यत् मरणं तदिह हेतुः। विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् / ततो यन्मरणं हेतुस्तत् तरुष्वसिद्धम् / यत्तु सिद्धं शोषात्मकं तदहेतुः / दिगम्बस्स्तु साध्यैन 'व्याप्तमव्याप्तं वा मरणमविविच्य मरणमात्र हेतुमाह / सवस्य वादिनो हेतुभूतं.१°मरणं न ज्ञातम् / अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् / प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् / यवा तु वादिनोऽपि ज्ञातं तदा वादिनोप्यसिद्धं स्यादिति न्यायः // . धेयत्वे सति प्रमेयत्वात् / अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वादिति विशेषणविशिष्टस्य रूपस्य तत्र धर्मिणि द्वयोरपि वादिप्रतिवादिनोरसिद्धत्वात् / केवलं तत्रासिद्धो विशेषणविशिष्टतयोपात्तस्य रूपस्य तथाऽसिद्धेस्तथा तथा व्यपदिश्यत इति // चेतना इति / चेतयन्त इति चेतनाः। दिश एवाम्बरं येषामिति व्युत्पत्त्या दिगम्बराः क्षपणका उच्यन्ते / तैः किम्प्रमाणसमधिगत मिन्द्रियमित्याह-रूपादीति / सत्स्वन्येषु कारणेष्वव्यापृते चक्षुरादौ रूपादिज्ञानमनुत्पद्यमानं स्वोत्पत्तौ कारणा[67b]न्तरमपेक्षणीयं सूचयति / प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत् किमपि कारणमस्तीति ख्यापयति / अत एवाह-कायान्तर्भूतं कायाश्रितम् / सामान्येनोक्तं कायाश्रितत्वम् / विशिष्टज्ञानाभिप्रायेणोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुरिति / आदिशब्देन रसनादिपरिग्रहः / प्रसन्नार्थादेरपि सद्भावान्न गोलकादिरेवेन्द्रियमिति भावः / किमायुरित्याह-आयुरिति आयु:शब्देनेत्यर्थः / लोके व्यवहतरि जने प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदोद (भेदाद) पानादिसंज्ञां लभत इति तत्तदवस्थाविवक्षया प्राणा इति बहुवचनम् / नवागमे जीवितेन्द्रियमायुरित्युक्तम् / तत्किमेवं व्याख्यायत इत्याह-न चेति / चोऽवधारणे हेतौ वा / यत एवमतः कारणात् / इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथाभू 1 उच्यते-B. प्रमाणस्व० H. तरुष्वभावात्-B. 4 सत्ताया A. तत्र A. मरणहेतुः-A. B. P. H. N. 7 यच्च D. विज्ञानेन्द्रियायुनिरोधलक्षणम्-टि० शोषलक्षणम् / :: " हेतुज्ञात्ततं A. विज्ञानेन्द्रियायुनिरोधलक्षणम्-टि० ..