________________ 206 तृतीयः परार्थानुमानपरिच्छेदः / अत एव लाक्षणिकोऽयं विरोध उच्यते / लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृत्वा / विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्थाप्यते / अत एव दृश्यमाने रूपे यनिषिध्यते तद् दृश्यमेवाभ्युपगम्य निषिध्यते / तथा हि-अभावोऽपि पिशाचोऽपि यदा पीते निषेमिष्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः / तथा च सति रूपे परिच्छिद्यमानं एकस्मिस्तदभावो दृश्यो व्यवच्छिद्यते / यच्च तदभाववनियताकारं कल्पितम्, न तु सर्वस्य नीलादेः / अक्षणिकत्वं तु सर्वस्य नीलादे: स्वरूपात्मकं सर्वस्यैवानेकक्षणस्थायित्वात् / न चाक्षणिक एव नित्यः, सतोऽकारणस्याकाशादेः कियत एव तथात्वात् / तथा पिशाचत्वमप्यस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्क्रूपं कल्पितमिति / तस्यापि नीलाकारत्वान्नीला दिना (ता)। अयं विरोधः / यद्वा नियतः प्रतिनियत आकारः स्वभावो यस्य स तथा निषेधेनानियताकारः। तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकारत्वानियताकारत्वे वाच्य / तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः। सर्वेषां स्वरूपात्मकमिति च विवरणमर्थाभेदेन नेयमिति / ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते / पूर्वेणापि परस्परपरिहारावस्थानं प्रतिपाद्यत इति कथमन्योन्यानन्तर्भाव इत्याशङक्याह-एकात्मत्वेति / चो यस्मादर्थे / विरुद्धयोरेकात्मनिषेधको विरोध एकात्मविरोध उक्तः / कथमस्य तथात्वमित्याह-ययोरिति / हिर्यस्मादर्थे / यत एतेन विरोधेन विरुद्धयोरेकात्मत्वं निषिध्यते अत एवास्मादेव कारणात् / कथमीदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्याह-लक्षणमिति / विभक्तस्वरूपं प्रयोजनं व्यवस्थाप्यतया साध्यम् , प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य / इति कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्पत्त्येति यावत् / कथमेतत्प्रयोजनमित्याह-विरोधेनेति / हीति यस्मात् / विभक्तमन्येन विभक्तं यतोऽनेनेति विरोधेन नीलादेविभक्तरूपव्यवस्थापनादन्येन सहकात्म्यं निषिध्यते / अत एवास्मादेव कारणात् / दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन्निषिध्यते दृश्यमानात्मकत्वेन प्रतिषिध्यते / ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्वदृश्यस्येत्याशडक्याह-तथा हीति / न केवलं भाव इत्यपिशब्दः / न केवलमभाव इत्यपिशब्दः / दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, 'नायं दृश्यमानः पीतोऽभावः, पिशाचो वाताप्येणाप्रतिभासनादित्येवं निषेधादित्यभिप्रायः / इतिर्हेती। दृश्यानपलब्धेरेवान्यस्य. तादात्म्येनान्यस्मिन्निषेधः। अथ स्यात्प्रत्यक्षमेवात्र नीलस्य पीतात्मताऽभावव्यवहारं करोति / तत् किमेवमुच्यते ? अथोक्तमेतददृष्टानामपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुमिति चेत् / न। इह तादात्म्य 1 अथ यत्तदभाववत् पा(पी)तादि तत कथं व्यवच्छिद्यते इत्याह-टि.....