________________ 3. 57..] असिद्धहेत्वाभासलक्षणम् / .. 189 भवति यदि तच्च, तत्प्रतिरूपक' चोच्यते / हेयज्ञाने हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति / 'त्रिरूपलिङ्गाख्यानं उपरार्थमनुमानम्'[३.१.] इति प्राग् उक्तम् / - तत्रेति तस्मिन् सति / त्रिरूपलिडाख्याने परार्थानुमाने सतीत्यर्थः। त्रयाणां रूपाणां मध्य एकस्याप्यनुक्तौ। अपिशब्दाद द्वयोरपि / साधनस्य आभासः सदशं साधनस्य, न साधनमित्यर्थः / त्रयाणां रूपाणां न्यूनता नाम साधनदोषः // - उक्तावप्यसिद्धौ संदेहे वा प्रतिपाद्यप्रतिपादकयोः // 56 // .. न केवलमनुक्तावुक्तावप्यसिद्धी संदेहे वा। कस्यत्याह-प्रतिपाद्यस्य प्रतिवादिनः, प्रतिपादकस्य च वादिनो हेत्वाभासः // .... अथ 'कस्यैकस्य रूपस्यासिद्धौ संदेहे वा किंसंज्ञको हेत्वाभास इत्याह... एकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे "वासिद्धो हेत्वाभासः // 57 // इत्याशङ्कयाह-एतदुक्तं भवतीति / त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम् , सन्दिग्धविपक्षव्यावृत्तिकत्वादोष (दिषु) विप्रतिपत्तिदर्शनात् / सदृ[67a]शं साधनस्येत्यर्थकथनमेतद् / व्युत्पत्तिस्त्वाभासनमाभासः प्रतिभासः, साधनस्येवाभासः प्रतिभासोऽस्येति तथा। न्यूनता ऊनत्वमपरिपूर्णता। कस्येत्याकाङक्षायामाहत्रयाणामिति / यस्मादेकस्य द्वयोर्वाऽनुक्तौ त्रीणि परिपूर्ण प्रतिपादितानि न भवन्ति तस्मात्त्रयाणां न्यूनतेत्यर्थः / ___ ननु हीनाङ्गत्वं न साधनदोषः / विद्यमानेऽपि हि रूपत्रये द्वयोरेकस्य वा वक्त्राऽन• भिधाने सति न्युनतायाः सम्भवात् / तत्कथं वक्तृदोषः साधनदोष इत्युच्यत इति चेत् / सत्यम्; केवलं नात्र साधनशब्देन लिङ्गमभिप्रेतम् / किं तर्हि ? तत्प्रतिपादकं वाक्यं तस्य चापरिपूर्णता दोषो भवत्येव / वक्तृदोषस्तु निमित्त[म परिपूर्णताया इति किमवद्यम् ? - एवमुपलक्षणार्थत्वादस्य यथाऽन्यतमेनापि रूपेण हीनत्वान्न्यूनता साधनदोषस्तथा हेतूदाहरणादप्याधिक्यं साधनदोषो वार्तिककारस्याभिप्रेतो द्रष्टव्यः, उभयत्रापि त्वसाधनाङ्गवचनाद् वादिना निग्रहो विवक्षित इत्यपीति / / प्रतिपाद्यस्येत्यादिना प्रतिपाद्यप्रतिपादकशब्दयोरेवार्थ व्याचष्टे / आचार्यस्य तु प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रतिपादकयोश्चेति व्यस्तसमस्तनिर्देशोऽभिप्रेतः। 1 प्रतिरूपं बोध्यते A. B. P. H. लिङ्गाभासम्-टि. ' हेयज्ञाते E. परार्थानु-A.B.P.H.E.N... परार्थेऽनुमाने-C. / कस्य रूप० A. P. H. E. N. हेत्वाभासोऽप्येकस्य रूप०.C.. . संदेहे वाक्यं सं० A...... ७.संदेहे चासि०.B..C. D. P.H. E.