________________ 2188 तृतीयः परार्थानुमानपरिच्छेदः। [ 3.54 .. 'एवं सिद्धस्य, प्रसिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्ययेण साध्यः / तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवयं दर्शितं भवति // 54 // ..एवम्-इत्यनन्तरोक्तक्रमेण / सिद्धस्य विपर्ययेण विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः। यस्मादर्थात सिद्धोऽर्थो विपरीतः, स साध्य इत्यर्थः। सिद्धश्च विपरीतोऽसिद्धस्य / . तस्माद् असिद्धः साध्यः। असिद्धोऽपि न सर्वोऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण / स्वयं वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण / तथा उक्तमात्रस्य असिद्धस्यापि / विपर्ययेण / तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः / यश्चायं पञ्चभिर्व्यवच्छेद्य रहितोऽर्थोऽसिद्धो ऽसाधनं वादिनः स्वयं साधयितुमिष्ट उक्तोऽनक्तो वा प्रमाणरनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः . पदैरुक्त इत्यर्थः। यश्चायं साध्यः स पक्ष 'इति उच्यते। इतिशब्द एवमर्थे। एवं पक्षलक्षणमनवद्यमिति / अविद्यमानमवद्यं दोषो यस्य तदनवद्यम् / दर्शितं कथितम् // त्रिरूपलिङ्गाख्यानं परिसमापय्यः प्रसंगागतं च पक्षलक्षणमभिधाय हेत्वाभासान् वक्तुकामस्तेषां प्रस्ताव रचयति त्रिरूपेत्यादिना त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् / तत्र त्रयाणां रूपाणामेक.स्यापि रूपस्यानुक्तौ साधनाभासः // 5 // एतदुक्तं भवति–त्रिरूपलिङ्ग वक्तुकामेन स्फुटं तद्वक्तव्यम् / एवं च तत् स्फुटमुक्तं लक्षणत्वाद् बाह्यसत्त्वप्रतिपादनायेत्यपि द्रष्टव्यम् / सर्वथा न स्वाभिप्रायस्य सत्त्वमसत्त्वं वा प्रतिपादयितुं शब्दप्रयोग इत्यने [न] हेतुम् / यत एवं ततस्तस्मात्पूर्वकमेव यन्मया व्याख्यातमनवद्यमपगतदोषम् / / - इति चत्वारः पक्ष.भासा निराकृता भवन्तीति मलं व्याचक्षाण आह-एवमिति / निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् / / ... पक्ष इत्युच्यते व्यक्तीक्रियत इति व्युत्पत्त्येति भावः / / ननु त्रिरूपलिङ्गाख्यानं प्रकृतमुक्तमेव / तत् किं हेत्वाभासाख्यानमप्रकृतं क्रियत ' 'एवं' नास्ति B. P. H. लक्षणमवा B. P. ..रोक्तेन क्रमेण B. C. D... 4 'असिद्धो' इत्यादिपदानन्तरं A. प्रतौ D. प्रतौ च संख्याङ्काः दत्ता वर्तन्ते--सं० 5 'इति' नास्ति A. B. D. P. H. E. N. समाप्य E. लिङ्गाख्यानं वक्तु० A.B.P.H. E. N. .. ..