________________ . . . पक्षलक्षणम् / 187 तवयुक्तम् / यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् / न वास्तवम्। अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य। ततस्तदिह न गृह्यते / किञ्च / यथा-अनुमानमनिच्छन् 'वह्नयव्यभिचारित्वं धूमस्य न प्रत्येति, तथा शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति / बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते / तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः। अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु बाह्य सत्वप्रतिपादनाय, तस्माद् बाह्यवस्त्वविनाभाविस्वाभ्युपगमपूर्वकः शब्दप्रयोगः / ततः पूर्वकमेव' व्याख्यातमनवद्यम् // इति चत्वारः पक्षाभासा निराकृता भवन्ति // 53 // एवं च सति-अनिराकृतग्रहणेनानन्तरोक्ताश्चत्वारः पक्षवदाभासन्त इति पक्षाभासा निरस्ता भवन्ति // संप्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवच्छेदेन यादृशः पक्षार्थो लभ्यते सं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति / नन्वनुमानप्रामाण्यमसत्त्धं बाधते न तु स्ववचनं तत्कथं स्ववचन निराकृतोदाहरणमिदमुक्तमित्याशङक्य स्ववचन निराकृत इत्यत्र यादशोऽर्थो विवक्षितस्तं दर्शयति तदेवमिति / अत्रेति स्ववचननिराकृते / यथानुमानं न प्रमाणमित्यत्र / .. . स्वाभिप्रायेणैव व्याख्याय अन्ये त्वित्यादिना पूर्वव्याख्यानं दूषयितुमाह / तुना स्वव्याख्यानाद् वैसदृश्यमाह / न वास्तवमिति ब्रुवतो यदीदं वास्तवमनुमानं स्यात्तदानुमाननिराकृतोदाहरणान्न . . पृथगुच्यतेति / किञ्चेति वक्तव्यान्तराभ्युच्चये। बाह्यवस्तुप्रत्यायनाय चेति चकारोऽपि वक्तव्यान्तरसमुच्चये / यत एवं तत्तस्मात् / स्वस्योच्चारयितुमभिप्रायो वक्तुकामता, तदव्यभिचारित्वाभ्युपगमः वो यस्य तथा न भवति / पूर्व बाह्यवस्तुप्रत्यायनायेत्यनेन सामर्थ्यान्न स्वाभिप्रायप्रत्यायनायेत्युक्तमपि स्फट दर्शयितुं तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोग इत्यनेन सामर्थ्याद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति दर्शितमपि साक्षाद् दर्शयितुमपि चेत्यादिनोपक्रमते / अपि चेति पूर्वोक्तस्य वक्तव्यान्तरद्योतकस्य स्पष्टीकरणम् / यत्राप्यसत्त्वप्रतिपादनाय शब्दः प्रयुज्यते तत्रापि विवक्षितसत्त्वविविक्तस्यान्यसत्त्वस्य प्रतिपादनाद् बाह्यसत्त्वप्रतिपादनायेत्युक्तम् / यद्वा . सत्त्वग्रहणस्योप - वास्तवमिति. C. D.. 2 अग्न्यव्यं D. .. 3 'अपि च' इति यस्मादर्थेऽव्ययम्-टि० / 'अपि. च'इत्यारभ्य 'शब्दप्रयोगः' इत्यन्तः बाह्यवस्तुसत्त्व A. B. C. D. P. H. E. N. 5 पूर्वमेव E. 6 व्याख्यानम०.A. B. C..D. P. H. E: N. 7 एवं सति-A. P. N........प्रक्षो -C....... ..... .