________________ 286 तृतीयः परार्थानुमानपरिच्छेदः / [इ.५२० ___तस्मात् 'नानुमान प्रमाणम्' - इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्नों' पाह्य उक्तः / असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् / शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो दशितः। तथा च २सन्नर्थो दशितः। ततः कल्पितादर्थकार्याच्छब्दाच्छाब्द प्रत्ययार्थस्यानमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति / .. तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं बाध्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः। - अन्ये स्वाहः-अभिप्रायकार्याच्छब्दाज्जातं ज्ञानमभिप्रायालम्बनम् / सवर्थमिच्छतः शब्दप्रयोगः। तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति / निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङवयाह-तथा च सतीति-शाब्दज्ञानस्य सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति / बाह्यवस्तुनान्तरीयकं तदविनाभाविनं दर्शयता सत्यार्थ दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्यर्थः / यत एवं ततस्तस्मात् / बाझार्थकार्यादिति सति भेदे तदुत्पत्त्यैव नान्तरीयकत्वसम्भवादिति भावः / शाब्दमिति प्रकृतत्वाज्ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजमिति हेतुभावेन विशेषणमनमानं प्रमाणं दर्शितं प्रकाशितं भवति / तस्मावित्यादिनोपसंहरति / नन्वनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् / तत्कि शाब्दस्य प्रत्ययस्येत्युक्तमिति चेत् / - नैष दोषः। शाब्दस्यापि प्रत्ययस्योक्तेन न्यायेनानुमानत्वात् / सर्वानुमानप्रामाण्यप्रतिषेधे चास्यापि प्रतिषिद्धत्वात् / अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थबाधकत्वादुपन्यासो युक्तरूपः / ___ यद्येवमप्रामाण्यमुक्तम् तच्च बाध्य[66b]त इति वक्तुं युज्यते। तत्किमेवमुक्तमित्याहअसदर्थत्वमिति / हीति यस्मात् / आस्तामसन् ग्राह्योऽभिहितः किमत इत्याह-शब्देति / चो हेताववधारणे वा / शब्दोऽप्यतस्तथा दर्शितस्तथापि किमायातमित्याह-तथा चेति शब्दस्य बाह्याविनाभाविप्रदर्शनप्रकारे सति - सन्नर्थोऽध्यवसेयो दर्शितः। सदर्थत्वं प्रामाण्यलक्षणं दर्शितमिति यावत। तस्य. सदर्थत्वं प्रदर्श्यतां बाधा तु कथमित्याह तत इति / शाब्दप्रत्ययस्य योऽर्थो ज्ञाप्योऽनमानप्रामाण्यलक्षणस्तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्तृ प्रतिज्ञायमानमसदर्थमप्रामाण्यलक्षणं कर्मभूतं प्रतिबध्नाति / निराकरोतीति वक्तव्ये प्रतिबध्नातीति ब्रवाणः परमार्थतोऽस्यावास्तवत्वान्न बाधा किन्त्वेतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति सूचयति / ... स्यासन् ग्राह्य उक्तो A. P. H. N. सन्नार्थो-E. .. 3 'नानुमान प्रमाणं' इत्यस्माच्छब्दाद्योऽर्थो बुध्यते तेन जनितो 'नानुमान' इत्यादिकः शब्दः न प्रत्येष्यति नास्तिको व्यभिचारात्-टि. 4 अध्यारोपित-टि० ..च्छब्दप्र. A. 6 वाच्यमानं A. B. P..H. E.N.