________________ 3. 52. 1. पक्षलक्षणम् / 185 स्ववचन निराकृतो यथा-नानुमानं प्रमाणम् // 52 // स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः / तेन निराकृतः प्रतिज्ञार्थो न साध्यः / यथा नानुमानं प्रमाणम्-इत्यत्र' अनुमानस्य प्र.माण्यनिषधः प्रतिज्ञाथः / स नानुमान प्रमाणम्-इत्यनेन स्ववाचकेन वाक्यंन बाध्यते / वाक्यं हि एतत् प्रयुज्यमानं वक्तुः शाब्दप्रत्ययस्य सवर्थत्वमिष्टं सूचयति / तथाहि-मद्वाक्याद् योऽयंसप्रत्ययस्तवात्पद्यत साऽसत्यार्थ इति दर्शयन् वाक्यमेव नोच्चारयवक्ता, वचनाथश्चेदसत्यः परेण ज्ञातव्यो वचनमपाथकम् / योऽपि हि सर्व मिथ्या ब्रवीमीति४ वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति / यद्येतद्वाक्यं सत्यार्थमादशितम्, एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि' दर्शितानि भवन्ति / एतदेव तु यद्यसत्यार्थम, अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति / ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् / तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेव वक्ता वाक्यमुच्चारयति / तथा च सति बाह्यवस्तुनान्तरीयकं सब्वं वर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् / ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमावर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्वं दशितं भवति / .. .. . प्रतीतिमात्रादेव सिद्धो योऽर्थः स इह बाधक इति दर्शयितुम् / एतच्च स्वभावहेतुत्वं कल्पित मिष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्याऽऽध्यवसानिकत्वात् / अन्यथाऽनु माननिराकृतान्नास्य पृथङनिर्देशः स्यादिति // . स्वशब्देनात्मवचनेन प्रकृतत्वात्साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह-प्रतिज्ञार्थस्यात्मीय इति / तेन निराकृत इति तदुपस्थापितेनानुमानप्रामाण्येन निराकृत इति द्रष्टव्यम् / कथं निराक्रियत इत्याह-वाक्यमिति / यस्माद् एतद् वाक्यं प्रयुज्यमानं सद् वक्तुः शाब्दप्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थत्वमिष्टं सूचयति प्रकाशयति / * प्रयुक्तमपि कथं तथाकरोतीत्याह-तथा हीति। नोच्चारयेदुच्चारयितुं नार्हति, अपार्थकत्वादिति बुद्धिस्थम् / वचनेत्यादिना त्वेतदेव व्यनक्ति-न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा सर्व मिथ्या ब्रवीमीति वचनमित्याह-योऽपीति / हिर्यस्मात् / कथं तथादर्शयन्नुच्चारयतीत्याह-यद्येतदित्यादि। भवतु वाक्यप्रभवं वाक्यार्थालम्बनं ज्ञानं सत्यार्थम्, तथापि कथमनुमानप्रामाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस्तद्वचनोपस्थापितानुमानप्रामाण्येन ' प्रमाणम् / अत्र A. B. D. P. H. E. N. स चानुमा० C. शाब्दस्य प्रत्य A. B.C. D. P. H. E. N. 4 ब्रवीति वक्ति B. न्यसत्यानि A. .6 'एतदेव' इत्यादि 'भवन्ति' इत्यन्तं सूत्रत्वेन H. प्रती मुद्रितम् / किन्तु नास्त्यैतत् सूत्रम्-सं० 7 अनुमानप्रामाण्यनिषेधलक्षणम्-टि. .....यथा A.; 9 आदर्शयिता-A............ .... /