________________ 184 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 52. विकल्पविज्ञानविषयत्वमुच्यते। तेन विकल्पज्ञानेन' प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव / तथा हि-यद्विकल्प विज्ञानग्राह्यं तच्छब्दाकारसंसर्गयोग्यम् / यच्छब्दाकारसंसर्गयोग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् / अतः प्रतितिरूपेण विकल्पविज्ञानविषयत्वेन सिद्ध चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकम् / स्वभावहेतुश्च प्रतीतिः / यस्माद्विकल्पविषयत्वमात्रानुबन्धिनी साङकेतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधकं द्रष्टव्यम् // प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् / एतदेव दर्शयति प्रतीत इति / प्रतीत उच्यते व्यवह्रियते, साक्षात्कृतस्याप्यजाताध्यवसायस्य तथाव्यवहाराभावादिति भावः / विषयिणा विषयगतो धर्म उक्त इति स्फुटयति प्रतीतिः प्रतीतत्वरूपेण प्रतीतत्वमिति / तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतिरूपेण / तथा हीत्यनेनैतदेवोपपादयति / भवतु शब्दाकारसंसर्गयोग्यत्वम् / तच्छब्दवाच्यता तु कथमित्याह यदिति / अत इत्यादिना प्रतीतेर्बाधकत्वं दर्शयति / अचन्द्रत्वस्याचन्द्रशब्दवाच्यत्वस्य / किसाधनसिद्धमिदं चन्द्रशब्दवाच्यत्वमित्याह-स्वभावेति / स्वभावहेतुलक्षणं योजयन्नाह-यस्मादिति / तत इत्यादिनोपसंहारः। एवं तु प्रयोगो द्रष्टव्यः-योऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं शक्यः / यथा शाखादिमानर्थो वृक्षशब्देन / विकल्पविज्ञानविषयश्च शशीति / इह केनचिच्छब्देन कस्यचिदभिधातुमशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति स्यात् / स चान्यत्र प्रतिषिद्धः। पारिशेष्याज्ज्ञानात्मन्यारूढस्यार्थस्य शब्दसम्बन्धः कर्तु कस्य शक्यो यस्तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृज्यते। अनियतार्थं च विज्ञानमिति तदारूढोऽर्थस्तदभिधानाकारसंसर्गयोग्य एव। तस्मात्तेन शब्देनाभिधातुमशक्यत्वमतदाकारसंसर्गयोग्यत्वेन व्याप्तम्। व्या[6"a]पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् / तेन च विकल्पविज्ञानविषयत्वं व्याप्तम् / तदेवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरुद्धव्याप्तत्वात्तेनापि विरुद्ध्यते। ततश्च तद्विरुद्धेन शक्यत्वेन व्याप्त इति स्वभावहेतुः / तस्माद् विकल्पविज्ञानविषयत्वमेव प्रतीतिः प्रसिद्धिर्व्यवहारश्चोच्यते। अनया प्रतीत्या यत्साधितं शशिनश्चन्द्रशब्दवाच्यत्वं तत्स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं भवति / तेन प्रतीतेविकल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस्तेनानभिधेयत्वस्य बाधनात्प्रतीतिबाधोच्यत इति परमार्थः / यद्वा प्रतीतेस्तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः, ...1 विकल्पविज्ञानविषयत्वेन प्र. B. P. H. E. विकल्पज्ञानविषयत्वेन C. D. विकल्पविज्ञानेन A. 2 यद्विकल्पज्ञान B. P. H. N. यज्ज्ञानग्राह्य A.