________________ 183 3. 51.]. पक्षलक्षणम् / अनुमाननिराकृतो यथा-नित्यः शब्द इति // 50 // * अनुमाननिराकृतो यथा नित्यः शब्द इति। शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धन निराक्रियते // प्रतीतिनिराकृतो यथा-अचन्द्रः शशीति // 51 // प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः। अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः। प्रतीतिः प्रतीतत्वं एतल्लक्षणयोगेऽपीत्यस्यार्थकथनमिदमेतल्लक्षणेन योगेऽप्यर्थ इति / ननु च प्रत्यक्षादिभिनिराक्रियतेऽपसार्यत इति किल मतम् / न चाक्षा (र्था)पसारणं प्रत्यक्षादिधर्मोऽपि तु वस्तुव्यवस्थापनमित्याह-विपरीत इति / . श्रूयतेऽनेनेति श्रवणं श्रोत्रेन्द्रियं तेन ग्राह्यः उपलब्धः। तज्ज्ञानग्राह्यत्वाच्च तद्ग्राह्यत्वमुक्तम् / नजा समासमाह-नेति / समस्तस्यार्थमाह-श्रोत्रेणेति / अयमस्याशयःअश्रावणः शब्दः-श्रोत्रजे[65b]न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगताप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य तेनोपस्थापनादिति / एतेन तन्निराकृतम्, यदुद्द्योतकरेणोक्तम्- 'अश्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरणं वर्णयति / न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य / किं कारणम् ? इन्द्रियवृत्तीनामतीन्द्रियत्वात् / श्रावणत्वञ्चेन्द्रियवृत्तिः। सा कथं प्रत्यक्षा भविष्यति ? तस्मादनुमानविरुद्धस्योदाहरणमिदम् / अनुष्णो वह्निः कृतकत्वादिति प्रत्यक्षविरुद्धस्येति / ' .. न ह्यश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेरभावोऽभिमतो यस्य वादिनस्तं प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात्प्रत्यक्षनिराकृतमिदमाचार्येणोक्तम्, येनोच्यतेऽतीन्द्रियेन्द्रियवृत्तिः कथं प्रत्यक्षा येनेदमुदाहरणं संगच्छेतेति / किन्तहि ? यः कश्चिद् व्यामोहमाहात्म्याद् यदेतच्छोत्रग्राह्य रूपमद्वयं तन्नास्तीति प्रतीजानीते तं वादिविशेषं प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणमिदमिति / ... एतदुक्तं भवति / शब्दो नास्तीत्येवमपि ब्रुवाणस्यास्ति प्रत्यक्षबाधा / केवलं विषयो निषेधोऽनेकमार्गः / शब्दो नास्ति व्यापितया नित्यतयेत्यादि / तत्रासति श्रावणशब्दे सर्वस्यैव निषेधे प्रत्यक्षबाधा शङक्येत / श्रावणशब्देन तु श्रुतिमात्रग्राह्यमेव यद्रूपं तन्निषेधे प्रत्यक्षबाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति // C. D. H. E. N. . श्रवणेन्द्रियप्रभवज्ञानेनेत्यर्थः-टि० 2 'यथा' नास्ति . प्रतिज्ञार्थः-C. D. 4 न्यायवार्तिकं द्रष्टव्यम्-१. 1. 33. पृ० 113.