________________ 182 तृतीयः परार्थानुमानपरिच्छेदः / [3.48. अनिराकृत इति–एतल्लक्षणयोगेपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष' इति प्रदर्शनार्थम् // 48 // अनिराकृत इति व्याख्येयम् / एतदिति--अनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तं साध्यत्वेनेष्टेत्यादि-एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति प्रदर्शनार्थम् 'प्रतिपादनाय अनिराकृतग्रहणं कृतम् / कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह--यः साधयितुमिष्टोऽर्थः-प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं च-एतनिराक्रियते--विपरीतः साध्यते, 'न स पक्ष इति // तत्र प्रत्यक्षनिराकृतो यथा-अश्रावणः शब्द इति // 46 // तत्रेति / तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः ? यथेति / यथाऽयं प्रत्यक्षनिराकृतस्तथाऽन्येऽपि द्रष्टव्या इति यथाशब्दार्थः / श्रवणेन ग्राह्यः श्रावणः। न श्रावणोऽश्रावणः। श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः। श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धन श्रोत्र ग्राह्यत्वेन बाध्यते // ननु चक्षुरादीनां विज्ञानलक्षणपरार्थता सेत्स्यति / तत्कथमात्मार्थतासिद्धिरित्याह चक्षुरावय इत्यत्रेति। तथापि कुतस्तत्सिद्धिरित्याह विज्ञानाच्चेति / चो यस्मात् / अथ विज्ञानस्यापि धमित्वे कथमात्मार्थतासिद्धिरित्याशङक्य स्पष्टयितुमाह-परस्येति। सामर्थ्यादात्मार्थत्वं सिद्ध्यति चक्षुरादीनामित्येवं मत्वा परार्थग्रहणं कृतं सांख्येनेति प्रस्तावात्, अध्याहारे वा, तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् / तत् सिद्धकं सामर्थ्य मित्याशङक्य परस्येति योज्यम् / ___अर्थकारि प्रयोजनकारि विज्ञानमपीति द्रष्टव्यम् / सेत्स्यतीति अवतोऽयं भावः। आविशब्दाद विज्ञानस्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति / इतिहेती। अनेन सामर्थ्य चक्षुरादीनामात्मार्थतासिद्धौ दर्शितम् / तेनेत्यस्य मूलस्य व्याख्यानमिष्टसाधन (साध्यत्व)वचनेनेति / वादिनः साधयितुमिच्छया विषयीकृतम् / तच्च द्विविधमिति दर्शयन्नाह-उक्तमित्यादि / उक्तं साक्षादभिधाविषयीकृतम् / तद्विपरीतमनुक्तम् / कथं तर्हि तत्साध्यमित्याह-प्रकरणेति। प्रकरणेन साध्योफ्न्यासाश्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यमेवेत्युक्तं भवति / 'पक्षः दर्श० C. प्रदर्शनाय A. C. P. H.. 5 साध्यते स न पक्ष B.D. .. श्रोत्रज्ञानग्राह्य-टि० . . 2 साध्यत्वेनेष्टत्वादि C. D. 4 तैनि० E. N. 6 ०कृतेषु निरा० B