________________ 3.47.]. पक्षलक्षणम्। ... 181 तथा हि-सांख्येनोक्तम्-अस्ति आत्मा। तद्विरुद्धं बौद्धेनोक्त–नास्त्यात्मेति / ततः सांख्येन स्ववावविरुद्धं बौद्धवादं हेतुकृत्य विरुखवावनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् / अतोऽनुक्तावप्यात्मार्थता' साध्या, तदधिकरणत्वात् विवादस्य / शयनासनाविष हि पुरुषोपभोगावात्मार्थत्वेनान्वयो न प्रसिद्धः। संघातत्वस्य पारार्थ्यमात्रेण तु सिद्धः। ततः परार्था इत्युक्तम् / ___ चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थ साधयितुमिष्टम् / विज्ञानाच्च पर आत्मैव स्यात् / परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यावात्मार्थत्वं सिध्यति चक्षरादीनामिति मत्वा परार्थग्रहणं कृतम् / तेनेष्ट साध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद् वादिनः९.साधयितुमिप्टम्-उक्तम्, अनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति / यद्यपि तन्मूलो विवादस्तथापि अभिधाव्यापारविश्रामभूमिरेवार्थः साध्यः / न चात्मादिविवादाधिकरणम् / तथाभूतस्तत्कथं साध्य इत्याशङक्याह-एतदुक्तं भवतीति / यदात्मादि अधिकरणमास्पदं विवादस्य-अस्तीदं नास्तीदमित्यात्मकस्य परस्परविरुद्धस्य वादस्य / अत्रोपप[65a]तिमाह-यत इति / विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदमिति वादम् / तद् विरुद्धवादापनेतहेतूपन्यासविषयं चेद् यदि न साध्यं न जिज्ञापयिषितमिदानीमेतस्मिन्नभ्युपगमे कि जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद् वस्तु साध्यं स्याद् भवितुमर्हति / क्षेपे किमः प्रयोगान्न किञ्चिदित्यर्थोऽवतिष्ठते // . अनुक्तमपि साक्षादभिधाव्यापाराविषयोऽपि। संहा(घा)तत्वादनेकरूपत्वात् / कालविशेषानपेक्षं चैतद् द्रष्टव्यम् / तेन क्रमेण युगपद् वा संहतं तदिति संहतरूपं विज्ञानमपि क्रमेणानेकरूपमतस्तत्रापि संहातत्वं सिद्धमिति तदप्यादिशब्देन सङगृहीतं धर्मि कर्तव्यम् / अत 'एवानन्तरम् 'अत्रादिशब्दाद् विज्ञानमपि'इति वक्ष्यते। अन्यथा तु चक्षुरादीनां विज्ञानलक्षणपरार्थतासिद्धावा (व) पि नाभिप्रेतं सांख्यस्य सिद्ध्येत् / अनुक्तावप्यनभिधानेऽपि तस्येत्यर्थात् / क्वचित्पुनरनुक्ताप्यात्मार्थतेति पाठः। तत्रार्जवेन[व] सम्बन्धः। साधनोपन्यासाश्रयत्वेन प्रकृतत्वात्तस्या इति भावः / तथा होत्यादिनैतदेव प्रतिपादयति / हेतूकृत्य निमित्तीकृत्य। चः फलसमुच्चये। अनुक्तावपीति पूर्ववद्वाच्यम् / यद्ययं तस्याभिप्रायस्तदाऽऽत्मार्था इत्येव किं न ब्रवीतीत्या. शङक्य येनाभिप्रायेणैवमवादीतं दर्शयितुमाह-शयनेति। हिर्यस्मादर्थे / - नुक्ताप्या० A. B.C. D. P. H. E.N2 य आत्मप्रतिषेधवादोऽधिकरणं यस्य-टि० शयनादिष A. 4 ०र्थत्वेन प्रसिद्धः A. परार्थमा० A. B. P. H. परार्थत्वमा० N. 'बौद्धाना मते परमाणुरूपं ज्ञानमतः संघातरूपत्वम्-टि० 7 'परस्य' नास्ति-B. 8 साध्यवच० A. B. P. H. E. N. 1 वादिना E.