________________ 178 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.43. कः पुनरसौ वादीत्याह यस्तदा साधनमाह // 43 // यस्तदा-इति वादकाले साधनमाह / अनेकवादिसंभवेपि' स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् / यद्येवं वादिन इष्टः साध्यः-इत्युक्तम् / एतेन च किमुक्तेन ? अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो' मेतरो 'धर्म इत्युक्तं भवति / वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् // अथ कस्मिन् सत्यन्यधर्मसाध्यत्वस्य संभवो यन्निवृत्त्यर्थं तद् वक्तव्यमित्याह एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु तत्तस्मादर्थद्वयवृत्तित्वात् / इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः / तृतीयाप्रतिपाद्योऽर्थोऽत्रैषणकर्तृत्वम् / आत्मना इष्ट इत्यत्र तृतीयायाः कर्तरि विधानात् // अनेकवादिसम्भवेऽपि शब्दगताकाशगुणत्वादिवादिभूयस्त्वेऽपि। वादित्वं च योग्यतया। न तु तदा स्वपरपक्षसिद्धयसिद्धयर्थवचनलक्षणवादप्रणेतारः / विशेषणं व्यवच्छेदकमेतद् यस्तवासाधनमाहेति वचनम् / यद्येवमिति परः। अयं च निपातसमुदायोऽनिष्टापादनप्रारम्भे वर्त्तते / इत्युक्तमनेन वाक्येनेति शेषः / उच्यतामेवं को दोष इत्याह-एतेनेति। चशब्दोऽपिशब्दस्यार्थे। शास्त्रकारेष्टमपि वादीष्टं भवति। तत्कोऽतिशयोऽनेन प्रतिपादित इति चोदयितुरांशयः / अनेनेति सिद्धान्तवादी। अनेन यस्तदा साधनमाहेति विशेषणावच्छिन्नेन स्वयंशब्देन / एतदुक्तं भवति। यच्छास्त्राभ्युपगमेनापि वादी क्वचित्साधनमभिधत्ते, तच्छास्त्रकारेण तत्र यावदिष्टं तावच्चेत्तस्य साध्यत्वेनेष्टं तदेष्टमित्येव कृतं स्यात्, न तु स्वयमिति / नेतर इति तच्छास्त्रकारेष्टोऽम्बरगुणत्वादिरिति बुद्धिस्थम् / वादिन इति आद्यस्यैव व्यक्तीकरणम् // अर्थत्यामन्त्रणे। अनेन च C. १०संभवे स्वयं० B.C. D. यद्येव-A. B. P. H 4 साध्यो धर्मो नेतर इत्यु० C. ५'धर्म' नास्ति B. साध्यत्वसंभ० A.C. P. H.E. 7 .त्यर्थं चेदं A. D.P. H. E.N. .त्यर्थं चैतत-B. तेन स्वयं वादिना धर्मः साध० C.