________________ 3.45.]. पक्षलक्षणम् / 179 मिष्टः, स एव साध्यो नेतर इत्युक्तं भवति // 44 // तच्छास्त्रकारेणेति। यच्छास्त्रं तेन वादिनाऽभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य 'धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसंभवः। तथाहि-शास्त्रं येनाभ्युपगतं तित्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः। अनेनापास्यते। अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति / ननु च च शास्त्रानपेक्षं वस्तुबलप्रवृत्तं लिङ्गम् / अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः। सत्यम् / आहोपुरुषिकया तु यद्यपि क्वचिच्छास्त्रे स्थित इति किञ्चिच्छास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः, स एव साध्य' इति ज्ञापनायेवमुक्तम् // इष्ट इतीष्टशब्दमुपक्षिप्य व्याचष्टे-- इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यः // 4 // यत्रार्थ आत्मनि विरुद्धो वादः प्रक्रान्तः–'नास्ति आत्मा'-इत्यात्मप्रतिषेधवाद आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोविरोधात् / तेन विवादेन हेतुना साधनमुपन्यस्तं तस्या- स्मार्थस्य सिद्धि निश्चयम इच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवति इष्टशब्देन / यत् तद् इत्युक्तं भवति' इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं समापयितव्यम् / - यद्यपि परार्थानुमान उक्त एव साध्यो युक्तः, अनुक्तोपि तु वचनेन साध्यः, सामर्थ्योक्तत्वात् तस्य // .... इत्यस्ति विप्रतिपत्तिायविरुद्धा प्रतिपत्तिः केषाञ्चित् / अनेनात्मविशेषणेनापास्यते / - अनेकेत्यादिनोपसंहरति / अनेकधर्माभ्युपगमेऽपि शास्त्रकारस्य तत्र धर्मिण्यनेकधर्मोपगमे सत्यपि / वादिन इत्यात्मन इति षष्ठयन्तस्यार्थे वृत्तं स्वयंशब्दमु[पा]दाय / . आहोपुरुषिकयाऽभ्युपगत इति कर्तरीयं निष्ठा // विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्थापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थ वचनम् / प्रकान्तः प्रवृत्तः / इत्युक्तं भवतीति नात्र श्रूयते तत्कथमेवं व्याख्यायत इत्याह- यत्तविति / लोकोक्तिश्चैषा / इहेष्टपदविवरणे। समापयितव्यं सङ्गतार्थं कर्त्तव्यम् / 'अनेकधर्म. C. 2 तस्मिन् सिद्धो E. . 3 तादात्म्यतदुत्पत्तेः-टि० 4 स एव तस्य A. E.. 5 साध्यत इति-C... 6 सोऽर्थोऽनु० C वाक्यं परिसमा० A. B. C. D. P. H. E. N. तुशब्दस्तथापीत्यर्थे-टि०