________________ 3. 42. 1 पक्षलक्षणम् / 177 सह प्रत्यवमृष्टः? उच्यते। एवशब्दो निपातो द्योतकः / पदान्तराभिहितस्यार्थस्य विशेष द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः। न साधनत्वेनापीति। यत् साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् / असिद्धत्वाच्च' साध्यत्वेनापीष्टम् / तस्य निवृत्त्यर्थ' एवशब्दः // तदुदाहरति__यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात् साध्यम्। न पुनस्तदिह साध्यत्वेनैवेष्टम् , साधनत्वेनाभिधानात् // 41 // "यथेति / शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यम्-इत्यनेन साध्यत्वेनेष्टिमाह / तद् इति चाक्षुषत्वम् / इहेति शब्दे। साध्यत्वेनैवेष्टम्-इति साध्यत्वेनेष्टिनियमाभावमाह। साधनत्वेनाभिधानाद् इति—यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम् / न साध्यत्वेनैवेति // स्वयमित्यनॅन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह स्वयमिति वादिना // 42 // वादिनेति। स्वयंशब्दो निपात आत्मन इति षष्ठयन्तस्यात्मनेति च तृतीयान्त- स्यार्थे वर्तते। तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः। आत्मशब्दश्च सम्बन्धि शब्दः / वावी च प्रत्यासन्नः / ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः स एव० ततीयार्थयुक्तो निर्विष्टो वादिनेति / न 1 तु स्वयंशब्दस्य वादिनेत्येव पर्यायः // पक्षस्यानुमेयस्य // स्वरूपशब्देनेति सहार्थे तृतीया / [64b]उच्यत इति सिद्धान्तवादी। यत्साधनत्वेनेष्टं तत्कथं साध्यत्वेनापीष्टं भवतीत्याह-असिद्ध[त्वा] विति / चो यस्मात् / साध्यत्वेनेष्टोऽपि यदा साधनस्वेनोक्तस्तदाऽपक्ष इत्येवमर्थ एवशब्द इति समुदायार्थः / / . 1 ०त्वात् साध्य० B 2 ०त्यर्थम्-D 3 साध्यत्वेनेष्टम C. D. E 4 ०त्वेनाप्यभिधानात B. P. H. E. N 5 'यथेति' नास्ति A 6 नाशं स्वयमिच्छतीत्यादौ आत्मनो नाशमिच्छतीत्यर्थ:-टि. 7 स्यार्थेन युक्तः-B 8 प्रत्यासन्नभूतः यस्य A. B. P. H. 9 तृतीयार्थेन युक्तः C.D 10 'एव' नास्ति--B " ननु A. B. P. H.