________________ 176 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 37 अस्ति च साधनधर्म इति सामर्थ्यम् / अतः सामर्थ्यात् नास्त्यत्र घट इति प्रतीतेन पक्षनिर्वेशः। एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात् संप्रत्यय इति न 2 पक्षनिर्देशः // कीदृशः पुनः पक्ष इति निर्देश्यः 1 // 37 // कीदृशः पुनरर्थः पक्ष इति- अनेनशब्देन निर्देश्यो वक्तव्यः ? इत्याह स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः पक्ष इति // 38 // स्वरूपेणवेति साध्यत्वेनैव / स्वयमिति वादिना। इष्ट इति–नोक्त एवापि त्विष्टोपीत्यर्थः। एवंभूतः सन् प्रत्यक्षादिभिः अनिराकृतो योऽर्थः स पक्ष इत्युच्यते / अथ यदि पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तमपि त्वसाध्यं “केचित् साध्यम, साध्यं चासाध्य केचित् प्रतिपन्नाः / तत साध्यासाध्यविप्रतिपत्तिनिराकरणार्थ पक्षलक्षणमुक्तम् // स्वरूपेणेष्ट इत्यस्य विवरणम् स्वरूपेणेति साध्यत्वेनेष्टः // 36 // साध्यत्वेनेष्ट इति / पक्षस्य साध्यत्वान्नापरमस्ति रूपम् / अतः स्वरूपं साध्यत्वमिति // एवशब्दं विवरितुमाह स्वरूपेणैवेति साध्यत्वेनैवेष्टो * न साधनत्वेनापि // 40 // स्वरूपेणैवेति / ननु चैवशब्दः केवल एव प्रत्यवमष्टव्यस्तत् / किमर्थ स्वरूपशब्देन तेन तु तपस्विना बहुक्तं समञ्जसं! केवलं प्रतिपत्तराश्वासेनैवोत्पादितेन किं प्रयोजनम ? कथं चासौ सन्दिग्धार्थाभिधायिनः प्रतिज्ञावचनादास्थामुत्पादयतीति समीचीनं निरूपितम् ! आस्था खलु इदमेव मन्येऽथेत्यभिसम्प्रत्ययः। सा कथं वचनमात्राज्जायेत ? जातो वा साधनाद्यभिधानं न कथं वैयर्थ्यमश्नुवीतेत्यलं बहुना // अत्र सामर्थ्यात्स्वयं शब्दस्य वादिनेति विवृतिः कृता न तु स्वयंशब्दस्य वादिनेत्यर्थः / एतच्चानन्तरमेव दर्शयिष्यते / / 'सामर्थ्यात् ततः A. B. P. H. N. 2 पक्षो निर्देश्यः E. 3 पक्षः निर्देशः C. 4 मिष्टो निरा० B. P. 5 इति निर्देश्यः-C 6 ०कृतोऽर्थो यः स B.C.D. अथ यदि न पक्षो A. B. P. H. E. N. किञ्चित्-B. 9 'केचित' नास्ति-C. A.P. H. E.N. 10 ०त्वेनेष्ट्रो C. B. H. P. E. N. 15 तत्कथम्-B.