________________ 3.36.]. पक्षानिर्देशः। 175 पलम्भोऽसव्यवहारयोग्यत्वेन व्याप्तो दर्शितः। नोपलभ्यते च' इत्याविना साध्यमिणि सत्त्वं लिङ्गस्य दशितम् / यदि च साध्यधर्मस्तत्र साध्यमिणि न भवेत् साधमधर्मोऽपिन भवेत् / साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम // तथा वैधय॑वत्प्रयोगेऽपि यः सदयवहारविषय उपलब्धिलक्षणप्राप्तः, स उपलभ्यत एव / न तथाऽत्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति // 36 // यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव नेह सद्व्यवहार विषयोऽस्ति घट इति भवति / सामर्थ्य दर्शयितुमाह-यः सद्व्यवहारवियय इति विद्यमानः। उपलब्धिलक्षणप्राप्त इति दृश्यः इत्येषा साध्यनिवृत्तिः। ४स उपलभ्यत एवेति साधननिवृत्तिरिति / अनेन च साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता। न तथेति यथाऽन्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादश इति दृश्यो घट उपलभ्यत इति / अनेन साध्यनिवृत्तापिका निवृत्तिरसती साध्यमिणि दशिता। यदि च साध्यधर्मः साध्यमिणि न स्मात साधनधर्मोऽपि न भवेत / तदपि(यदपि) न्यायभाष्यटीका-वातिकयोविश्वरूपोद्योतकरावाहतुः "पुरा विषयनिरूपणपूर्वकमेव हि करणव्यापरणं दृष्टम् / करणं च साधन (नं) व्यापारयितव्यम् अतो विषयनिरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्तनस्याशक्यत्वादिति / "8 तदपि न चतुरस्रम् / यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितोऽर्थो निरूपयितव्यो बुद्धौ निवेशनीय इत्यभिमतम्, तदाऽभ्युपगम एवोत्तरम् / नहि कश्चित् साध्यमनिश्चित्यैव परप्रतिपत्तये साधनवाक्यमभिधत्ते। अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद दर्शितेन कोऽर्थः ? यदि परस्य प्रतीतिरन्यथा न स्यात्सर्वं शोभतेत्यत्तरमिति किं क्षण्णक्षोदीफरणेन ? अध्ययनः पुना रुचिटीकायामिदमवोचत् “धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतुराश्वासनार्थम् / न त्वादी धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः / अयुक्ततां (ता) तस्य प्रतिपत्तावदृष्टत्वात् / तत्र प्रदेशमात्रमुपलभते, तत्स्थं च धर्मम् / ततोऽविनाभावं स्मरति / तदनन्तरं तदेवेदमिति परामृशति / ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वादेव (त्वादावेव)। परामर्शस्य च स्वार्थपूर्वकत्वम् / न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनमस्ति / तेन परप्रतिपत्तावपि न कार्यम् / आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थमिति / " १०भ्यते इत्या० A. B. P. H N. 2 न च C.. ... 3 ०व्यवहारस्य विष. C. D. 4 'स' नास्ति A. B. C. D. P. H. 5 'च' नास्ति C. E. अनेन न H. 6 च न साध्य A. B. P. H. N. 7 मिणि भवेत साधन A.B.P.H.EN. 8 नोपलभ्यते न्यायवार्तिके-सं०