________________ 174 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 35. 'एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति यस्मात् साधर्म्यवस्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषयः / नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति // 35 // साधर्म्यवति प्रयोगेपि सामर्थ्यादेव नेह प्रदेशे घट इति भवति / कि पुनस्तत् सामर्थ्यमित्याह-यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते-इत्यनुपलम्भानुवादः। सोऽसद्व्यवहारविषयः-इत्यसद्व्यवहारयोग्यत्वविधिः। तथा च सति दृश्यानु वाचकं शब्द प्रयोक्तुमर्हति / स्वप्रतिपत्तिश्च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्णिमभिनिविशते / . तस्मात्परस्य विवादयित्रा ज्ञानस्थमर्थं परो बोद्धव्य इति स एव परं प्रत्युपाय इति / " तदेतत्कार्पटिककर्णाटरटितमश्रद्धेयं धीमताम् / तथा हि-सत्यम्, स्वप्रतिपत्त्याऽऽरूंढ एवार्थः परस्मै प्रतिपाद्यते। केवलमिदमालोच्यताम्-किं पक्षधर्मवचनाद् व्याप्तिवचनसहितात्सोऽर्थः प्रतिपादितो भवति नवेति / प्रतिपादने कि प्रतीतप्रत्यायकेन तद्वचनेन कार्यम् ? तावतो वचनात्तत्प्रतिपत्तिमपनुवानेव (नेन) तु नापलुतं नाम किञ्चिद् / अवश्यं चैतदन्यथा स्वार्थानुमानकाले प्रतिज्ञावचनमन्तरेण कथं प्रतिपत्तिः स्यात् ? स्वप्रतिपत्तिकाले च यावतोऽ र्थात्साध्यप्रतीतिरासीत् परार्थानुमानकालेऽपि तावत एव वचनमुपादेयम् / तत्र च न प्रज्ञापनीयधर्मविशिष्टधर्मदर्शनपूर्वकादिसाधनादिदर्शनात् साध्यप्रतीतिरासीत् / किन्तहि ? पक्षधर्मदर्शनात् तदविनाभावस्मरणसहितादिति तावत एव वचनं न्याय्यम् / . अथोक्तं पटुमन्दादिभावेन परप्रतीतीनामनवस्थानान्न शक्यते प्रयोगनियमः कर्तुमिति / सत्यमुक्तम्[64a] केवलं स्ववधाय कृत्योत्थापनप्रायं तत् / यतः पटुमन्दादिभेदेन प्रतिपत्तणामनेकप्रकारत्वात्स्यादपि कश्चिद् यः पञ्चावयवेऽपि वाक्ये प्रयुक्ते पूर्व संशयजिज्ञासादिवचनमन्तरेण न बुद्ध्यते बोधयितव्यमिति तद्वचनस्याप्यवश्यप्रयोज्यत्वादवयवत्वादवगत(दपगतं) पञ्चावयवत्वं साधनवाक्यस्य / अभ्युपगमे च गौड़काश्मीरपुरुषविधायो (विषयो)पाख्यानं कुतूहलास्पदमवतर त। प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्येवावयवा इति शास्त्रस्थितेरपसिद्धान्तोऽपि दीप्ताज्ञः पार्थिव इव निगृह्णाति / अथ किमस्य सम्भवोऽस्ति यो निर्दिष्टे हि साध्ये साधने वाऽभिहिते निदर्शिते चोदाहरणे कृतेऽप्यपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति ? ननु अस्यापि प्रतिपत्तः किमस्ति सम्भवो यत्र धर्मिणि साधनं चोधितः, तस्य साध्याविनाभावितां स्मरितोऽपि यस्तत्र साध्यं नावबुध्यत इति ? सम्भवति बुद्धिमान्द्यादिति चेत् / सर्व समानमिदमन्यत्राभिनिवेशादित्यलं विस्तरेण / 'एवमे० A. B. P. H. E एतमे० N. 3 नेह घट० A. B. P. H. N. 2 विषयः सिद्धः C. 4 प्राप्त मिति। अनु० A. P. H.