________________ 3.34. ]. पक्षानिर्देशः / 173 यथा...................."कुतश्चिद् भ्रान्तिनिमित्तादीदृशं व्याप्तिवचनं संभाव्यते / अथ तथाविधाभिप्रायों वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यत्वेन व्याप्ति ब्रूयात् / तदयुक्तम् / यतस्तयोाप्ति ब्रुवाणो....... कथयत्..... 'चेत् साधन...... ... साधनविकल: साध्यविकलो वा मा भूद् दृष्टान्त इति यत् कृतकं तदनित्यमिति प्रयोगोपि विरुद्धवाद्येव द्रष्टव्यः ।........."तदेतद्भौताख्यानं] किमत्र ब्रूमः / तथा हि कः खलु प्रेक्षावान् साधनविकलं विहायसं साध्यविकलं च कुम्भमालोचयितुमीशानोऽभिप्रेतनित्यत्वविरुद्धनानित्यत्वेन साध्ये (ध्य) विकलतया कुम्भसन्निभ एव घटे व्याप्ति दर्शयेत् / भ्रान्त्या चेत् / साधनवैकल्यमाकाशस्य..... ............... .....' 'वाऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्नि न प्रदर्शयेत् / तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य' ...... ."कुम्भतुल्येपि घटे व्यामुह्यति, भ्रान्तेनियतनिमित्तत्वादिति चेत् / एवं तर्हि पक्षवचने पि कथं . . . . . . . . संभाव्यत्वात् / * * * * * * * * * 'समानोपि विसंवादनाभिप्रायो न......। न चाप्युत्पत्ती न चान्यदास्यान्यादृशं वचनमिदानीं तु दूतादिभेदभिन्नमित्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतोऽभिप्रायोऽवधार्यते। तेन........... ....'तदनित्यमित्यभिधातरि * विशेषः। वचनसांकन्निवं तत्र निश्चय इति चेत् / एतत् पक्षवचनेपि समानम् / एवं निश्चेतुं शक्येति तस्य तत्र तथात्वावगमो भविष्यतीति चेत् सर्वं समानमन्यत्राऽविशेषात् / किञ्च स एवं वादी तपस्वी . . . . . . . [63b] स्वयमेव तावद् दुष्यति। न हि कश्चित्साधनवादी प्रतिज्ञाहेतूदाहरणान्येवाभिधायोपरमते। किन्तर्हि ? निगमनमप्युपादत्ते-तस्मादनित्यः शब्द इति। एवमुक्ते च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत् ? ततश्च निगमनेनैव विरुद्धशङ्काव्यवच्छेदस्य कृतत्वात्पक्षवचनमपार्थकम् / यदाहाक्षपाद':-'साध्ये विपरीतशङ्काव्यवच्छेदार्थ निगमनमिति”। तथा हेतुवचनस्याप्यनुत्थानमायातम्। निगमनेऽनाश्वास इति चेद् / हन्त प्रतिज्ञावचनेऽप्यनाश्वासस्तुल्यः। यत्तत्र समाधानं तन्निगमनेऽपि भविष्यति / तस्मात् तन्मतेऽपि निगमनादेवाभिप्रेतसाध्यप्रतीतेन विरुद्धाशङ्कानिरासार्थं पक्षवचनं करणीयम्। तदयं यथा नाम कश्चित् स्वाङगुलिज्वालया परं दिधक्षुः स परं दहेद्वा न वा, स्वाङगुलिदाहमेव तावदनुभवतीति * 'वृत्तान्तो जातः / ' यद्येवं निगमनमप्यपार्थकमापद्यत इति चेत / अयमपरोऽस्तु दोषः / कथं नाम ताथागता जयन्ति ? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्थं पक्षवचनं न कार्यम् / निगमनेनैव तदाशङ्काव्यवच्छेदस्य कृतत्वादित्युच्यत इति / त्रिलोचनः पुनायभाष्यटीकायामिदमवादीत्-'साध्यवचनमसाधनाङ्गवचनं न भवति, यतो विवादेषु परप्रतिपत्तिमधिकृत्य न प्रयोगनियमः शक्यः। पटुमन्दादिभावेन परप्रतिपत्तीनामनवस्थानात् / तथा हि हेतुवचनादेव कश्चित्प्रत्येति / कश्चित्पुनरन्तरेणापि हेतुवचनं वक्तृस्वरूपपरिशीलनात्प्रागेव शब्दनिष्पत्तेरोष्ठादिस्थानव्यापारोपलब्धर्वक्तुरभिप्रेतमन्वेति / तस्मादनपेक्षितपरप्रतिपत्तिरेवायं ज्ञाता ज्ञानस्थमर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्या रूढस्यार्थस्य ' अत्र अक्षपादवचनत्वेन यदुद्धतं तन्नास्ति न्यायसूत्रे किन्तु वार्तिके-'साध्यविपरीत. प्रसङ्गप्रतिषेधार्थ यत् पुनरभिधानं तत् निगमनम्” इति वर्तते- 1.1.39