________________ 172 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.34. अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः / यत् सद् उपलब्धिलक्षणप्राप्तमिति साध्यस्य-असवयवहारयोग्यत्वस्य निवृत्ति दृश्यसत्वरूपामाह / तदुपलभ्यत एवेत्यनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह। तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता। यदि च साधनसंभवेपि साध्यनिवृत्तिर्भवेत् न साधनाभावेन व्याप्ता भवेत्। अतो व्याप्ति' प्रतिपद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः / अत एवाह-अनुपलभ्यमानं तादशमिति दृश्यमसदिति प्रतीते: संप्रत्ययाद अन्वयसिद्धिरिति // द्वयोरप्यनयोः प्रयोगयो वश्यं पक्षनिर्देशः // 34 // यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य-तदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात् पक्षोऽवश्यमेव न निर्देश्यः। यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यमिणि दृष्टात् साध्यप्रतीतिः। अतो न किंचित साध्यनिर्वेशेनेति // निवृत्तिवचनं चैतदुपलक्षणं द्रष्टव्यम् / तेनान्वयवचनेपि सर्वं यथायोगं द्रष्टव्यम् / यस्मादेवमनुवादविधिक्रमस्तत् तस्मादनेन वाक्येन दशिता प्रकाशिता। भवत्वभावयोयाप्यव्यापकभावस्तथाप्यन्वयः कथं सिद्धयतीत्याह-यदीति / चो हेतौ। न व्याप्ता भवेत साध्यनिवृत्तिरिति प्रकृतत्वात् / / तस्मात्पक्षोवश्यमेव न निर्देश्य इत्यनेन नावश्यं पक्षनिर्देश इत्यस्यार्थ: कथितः / एवञ्च व्याचक्षाणेन यत्कश्चित्स्वयथ्यविद्वस्यमानैः "अवश्यं पक्षनिर्देशो न; किन्तहि ? कदाचिन्निर्देशः, कदाचिन्न"इति व्याख्यातं तदपहस्तितं द्रष्टव्यम् / कदाचिदपि तस्य प्रयोगार्हत्वे प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् / तथात्वे च वादन्यायस्य[63a] [विरोधः स्यात् / नवसति साध्यनिर्देशे कुतस्तदवगतिर्येन तदनिर्देश इत्याशङ्कयाह-यदिति। साध्य. नियतं साध्यनान्तरीयकम् / प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्थम् / तत एव साधनात् धर्मिणि विवादास्पदीभूते दृष्टात् प्रमाणेनावगतात् साध्यस्य धर्मधर्मसमुदायस्य प्रतीतिर्भवति / एतदुक्तं भवति....."प्रतीतार्थप्रतिपादकेन कर्तव्यमिति। शङ्कराचार्य ..... ईश्वरकारणे.........विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थ साध्यवचनमिति समाधानात् / तथाहि तस्य प्रबन्धस्यायमर्थ:-असति साध्यवचने यत् कृतकं तद् सर्वमनित्यं 'केण युक्तेन B. / सत्त्वस्वरूपामाह-C. . सत्त्वम्-टि० 4 उपलम्भेन–टि० 5 व्याप्तिप्रति A 6 'प्रतीतेः' इति नास्ति A 7 प्रयोगेऽवश्यं B. P. H. प्रयोगे नावश्य-E. N. दृष्ट्वा A. P. H. 9 अस्मिन् पत्रे अधिकं घृष्टं वर्तते। अत एव सम्यक् न पठयते-सं०