________________ 3.33. ] वाक्यद्वयप्रयोगोऽनावश्यकः / 171 तस्मानिवर्त्यनिवर्तकयोः प्रतिबन्धो ज्ञातव्यः। तथा चान्वय एव ज्ञातो भवति / इतिशब्दो हेतौ। यस्मादन्वयेऽपि व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद एकेनापि सपक्षे चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् / अन्वयो मुखमुपायोऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् / एवं व्यतिरेको मुखं उयस्येति / इति हेतौ / यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मादेकस्मिन् साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्तव्यः / अर्थगत्यर्थो हि शब्दप्रयोगः / अर्थश्चेदवगतः, कि शब्दप्रयोगेण ? 'एकमेवान्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् // अनुपलब्धावपि-यत् सद् उपलब्धिलक्षणप्राप्तं तद् उपलभ्यत एवेत्युक्ते–अनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः // 33 // हिशब्दस्य अर्थं कृत्वा शब्दपदार्थकस्या........... "एवमुक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् / - अमुमेव यस्मादर्थमपेक्ष्य तेनेति योजयितुमिति दर्शयितुमाह-यस्मादिति / एतच्च नहीत्यादिवाक्यस्य प्रकाश्यमर्थं गृहीत्वोक्तं न त्वभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् / .. ननु प्रतिबन्धः प्रतिबद्धत्वम् / स च निवर्तमानस्यैव न निवर्तकस्य। यदि हीत्यादिना . च... ...... दर्शयिष्यति / तत्कथमिह निवर्त्यनिवर्त्तकयोरित्युक्तम् / सत्यम् / केवलमत्र प्रतिबन्धशब्देन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् / / तेनायमर्थः / प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् / तथा च न कश्चिद् दोषः / कस्मात्पुनः प्रतिबन्धो दर्शनीय इत्याशङ्कयाह-यवीति / हीति यस्मात् / तेन व्यतिरेकवचनेनाक्षिप्तं प्रकाशितं। प्रतिबन्धस्तादात्म्यतदुत्पत्तिनिबन्धनं दर्शयष्यिते प्रकाश्यतेऽनेनेति तथा। प्रतिबन्धोऽवश्यदर्शयितव्योऽन्यथा व्यतिरेकस्यैवासिद्धेरिति भावः। भवतु तत्तथा यदिति / चोऽववारणे / तदयमर्थः-यदेवाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचनमन्वयप्रकाशनम् / नन्पदर्यतां प्रतिबन्धो ...... स कथं तेनोक्तो भवतीत्याह-प्रतिबन्ध इति। यद्यवश्यं दर्शयितव्यो नियमेन ख्यापनीयस्तहि न वक्तव्यः प्रतिपादयितव्योऽन्वयः / नन च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्वन्वयः / तत्कथं वक्तव्यस्तेन वाक्येनेत्याह-यस्मादिति / तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य वाऽन्वयात्मकत्वादिति भावः // H. E. N. 'र्तकप्रतिब-A. D. P. H. E. 3 मुखमस्य-C. 5 एकमेव त्वन्वय A. P. H. E. N. 2 अन्वये व्य० A. P. 4 इतिकरणो हेतौ A. 6 पाठोऽत्र घृष्टः / /