________________ 170 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.32. * स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य 'प्रतिबद्धस्य / तादात्म्यं लक्षणं निमित्तं यस्य स तथोक्तः। तदुत्पत्तिर्लक्षणं निमित्तं यस्य स तथोक्तः। यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयोऽर्षः स्वभावः कारणं वा स्यात् / अन्यस्मिन् प्रतिबद्धत्वानुपपत्तेः। तस्माद् द्विप्रकारः स इत्युक्तम् / स च सार्थेऽर्थे लिङ्गस्य' इत्यत्रान्तरेऽभिहितः // तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः। तस्मात निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति / यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः // 32 // ४हिर्यस्मादर्थे / यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावस्तेन' साध्यस्य निवृत्ती साधनस्य निवृत्ति कथयता प्रतिबन्धो निवर्त्य निवर्तकयोदर्शनीयः / यदि हि साधनं साध्ये प्रतिबद्धं भवेद् एवं साध्यनिवृत्तौ तनियमेन निवर्ते / यतश्च तस्य प्रतिबन्धो दर्शनीयः तस्मात् साध्यनिवृत्तौ यत् साधननिवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् / यच्च तदाक्षिप्त प्रतिबन्धोपदर्शनं तदेवान्वयवचनम्। प्रतिबन्धश्चेदवश्यं दर्शयितव्यो न वक्तव्यस्तन्वयः। यस्माद् दृष्टान्ते प्रमाणेन प्रतिबन्धो दर्यमान एवान्वयो नापरः कश्चित् , अथ स्वभावप्रतिबन्धश्चेदेकनिवृत्तावपरनिवृत्तिनिबन्धनं तदा कार्यहेतोरेव व्यतिरेको न स्वभावहेतो[62b]रिति११........."तस्यासौ न तर्हि कार्यहेतावित्याह-स चेति / चो यस्मादर्थे। स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् / कस्यासावित्याशङ्कायामाह-प्रतिबद्धस्य साधनस्य / सर्वस्येत्यनेन व्याप्ति दर्शयति / तत्र संयोगादिनिमिसशङ्काव्युदासायाभिमतं द्वितं(द्वैत) दर्शयन्नाह तादात्म्यमित्यादि / लक्ष्यतेऽनेनेति लक्षणम् / अत एवाह निमित्तमिति किम्पुनस्तेन स्वभावेन ........"मित्याह-अन्यस्मिन्नस्वभावेऽकारणे च / संयोगसमवाययोः प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेरिति भावः / यत एवं तस्माद् हेतोः / स इति प्रतिबन्धः // पूर्वक हिशब्दमिदानीं यथायोगं व्याचष्टे-हिरिति यस्मादर्थवृत्ति हिशब्दम् / अस्य 1 हेतोः-टि० / 'प्रतिबद्धस्य' इति नास्ति A. P. H. 2 तदन्वय--C. 3 सदसत्त्वाख्यापनं--C. 4 पूर्वसूत्रोक्तः-टि० 5 तेनेत्युपसंहरति-टि० 6 साधननिवृत्ति C. D. __7 निवृत्तौ नियमेन-B. C. D. 8 अन्तर्भावितम्-टि० / तेनाक्षिप्त प्रतिबन्धोपदर्शनं तदेवान्वय-B. 9 क्षिप्तप्रति A. P. H. E. N. 10 वचनरूपो यत्र यत्र धुमस्तत्राग्निरित्येवं न वक्तव्यस्तॉन्वयः प्रतिबन्धशून्यः / साध्यहेत्वोस्तादात्म्यतदुत्पत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भाव:--टि० / पाठोऽत्र घृष्टः /