________________ 169 3.31.] वैधयेणान्वयगतिः / यदि नामाकाशादौ साध्याभावे साधनाभावस्तथापि किमिति हेतुसंभवे साध्यसंभव इत्याह न हि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः // 30 // .. नहीति / 'स्वभावेन प्रतिबन्धो यस्तस्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः // . __ स च द्विप्रकारः सर्वस्य / तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्तम् // 31 // एवमतो हेतोरित्यादिनोपसंहारः / असति व्यतिरेके प्रतिबन्धानाक्षेपादन्वयस्यैवासत्त्वादसतश्च सत्त्वेन तत्प्रतिपादनायोगात्प्रक्षावतामन्वयवचनमेव न प्रयुक्तं स्यादिति समुदायार्थः / वैधयेणाभिधेयेन युक्त इत्यध्याहारः। प्रयोगे साधनवाचकशब्दसमूहे // कथमिति परः / असतीत्यादि सिद्धान्तवादी। बुद्धिगृहीत इति बुद्धयन्तरगृहीत इति ग्राह्यम् / एतदेव प्रतिपादयन्नाह हेत्वभाव इति / इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न स्यात्प्रतीतः साध्याभाव इति शेषः / मा भून्नियतोऽनुगतः किं नश्छिन्नमित्याह हेतुसत्त्वे इति / चः समुच्चये / अयमाशयः-सति साधनेऽवश्यं साध्यमित्येवंलक्षणोऽन्वयोऽस्त्येव। केवलं व्यतिरेक. वाक्यान्न प्रतीयत इत्युच्यते पूर्वपक्षवादिना। यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यमित्येवंरूपोऽन्वयः सिद्धयेत् / तत्रैवं सम्भावना विषये हेतुभावेऽपि साध्याभावादिति / यत एवमतोऽस्माद् हेतोरित्यादिनोपसंहारः / अत्राप्ययमाशयः-यदि यत्र साधनं तत्रावश्यं साध्यमिति न स्यात्तदा तत्रैव तावदसत्यपि साध्ये साधनं वृत्तमिति कुतः साध्याभावे साधनं न वर्तत इत्येवंरूपो व्यतिरेकः सिद्धयेदिति // अत्राभिप्रायमपरिज्ञायमानः (रिजानानः) प्राह—यदि नामेति / नहीत्यादि प्रतिविधानमाचाीयं नहीत्यादिना व्याचष्टे / अयं च मौलो हिशब्दः पश्चाद् व्याख्यास्यते / नियमेनावश्यंतया। या चावश्यं भाविनी निवृत्तिः सा नियमेन युक्ता भवतीत्यर्थकथनमेतत् // 1 भाव:-उत्पादः, सत्ता वा-टि० 22