________________ 168 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 28. इतरथा 'साध्यनियतमेव न प्रतीतं स्यात् / साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः / अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः // तथा वैधयेणाप्यन्वयगतिः // 28 // तथेति / यथाऽन्वयवाक्ये तथाऽर्थादेव वैधhण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः। कथम् ? असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धः // 26 // असति तस्मिन् अन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धरनवसायात् / हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः / इतरथा हेत्वभावे' नियतो' न स्यात् प्रतीतः। हेतुसत्त्वे च साध्यसत्त्व गतिरन्वयगतिः / अतः साधनाभाव नियतस्य साध्याभावस्याभिधानसामर्थ्याद् व्यतिरेकवाक्येऽन्वयगतिः / / एतदेव दर्शयितुमाह-यदि नामेति / विशेषाभिधाननिमित्ताभ्युपगमे चायं निपातसमदायः। अन्वयवताऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् / अन्वयवचनसामर्थ्यादन्व[62a]याभिधानबलात् // अभिप्रायमजानानः पर आह-कथमिति / असतीत्यादि सिद्धान्तवादी। अभिधेयतया स्थित इत्याशङ्कामपाकर्तुमाह-बुद्धति। तादात्म्यतदुत्पत्तिनिबन्धनेन प्रतिबन्धेन प्रतिबद्धत्वात्साधनमिदं साध्याभावे न भवत्येवेति बुद्धचाध्यवसिते विषयीकृतेऽसति / साध्येन हेतोरन्वयस्य-अन्वीयमानत्वस्य-यत्र साधनं तत्र सर्वत्रावश्यं साध्यमित्येवंरूपस्य बुद्धचाऽध्यवसितस्येत्येतदन्वयवाक्योपस्थापितया बुद्धचा गृहीतस्याभावावभावप्रसङ्गादित्यर्थः / एतदुक्तं भवति। यदि साध्याभावेऽपि साधनं स्यात् तदा यत्रवादः साध्याभावेऽपि वृत्तमिष्यते तत्रैव तत्साधनमप्यस्ति न च साध्यमिति कथं यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्म इति सर्वोपसंहारेणान्वय उक्तः स्यादिति / तस्माद् हेतोरन्वयाभावाद् हेतोः साध्ये नियतं साध्याविनाभाविसाधनमन्वयवाक्वादिवा(क्यादव)स्यता प्रतियता साध्याभावे साधनं नाशनीयं न सन्देहनीयम् / आशङ्कानिषेधेन च विपर्ययोऽत्यन्तं निषिद्धः / कथं पुनस्तेनैवं नाशङ्कनीयमित्याह–इतरथेति-अतोऽन्येन प्रकारेण / अस्तु साध्याभावे साधनाभावावसायो व्यतिरेकस्तु कथं प्रतीयत इत्याह-साध्यति / चो यस्मादर्थे / यत 1 साध्ये नियत०.C गृहीते ते साध्या-A. P. H. 3 साध्याभारो (वो)ऽनग्नि:-टि. 4 नियतः साध्याभावो न स्यात्-A. B. D. P. H. E. N. 5 साध्यसत्त्वं गतिः-A. साधनाभावे नियतस्य-C,