________________ 3.27.]. अन्वयसामर्थ्याद्वैधयंगतिः ... साधयेणापि हि प्रयोगेऽर्थाद्वधर्म्यगतिरिति // 26 // साधयेणेति / साधर्म्यणापि अभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात् सामर्थ्यात वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति / हीति यस्मात् / तस्मात् त्रिरूपलिङ्गाख्यानमेतत् / यदि नाम व्यतिरेकोऽन्वयवता' नोक्तस्तथापि अन्वयवचनसामदेिवावसीयते // कथम् ? असति तस्मिन् साध्येन हेतोरन्वयाभावात् // 27 // असति तस्मिन् व्यतिरेके "बुद्धयाध्यवसिते साध्येन हेतोरन्वयस्य 'बुद्धयाध्यवसित-९ स्याभावात् / १°साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् / इतिस्तस्मात् / साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिरवसायो भवति। सर्वत्र हेतुत्रयवैधर्म्यप्रयोगे // स्वभावहेतुमधिकृत्याह-स्वभावेति। वैधर्म्यप्रतिपादकः प्रयोगस्तथोक्तः। कथं पुनरत्र साध्यनिश्चयो जायत इत्याह-इहेति स्वभावहेतुप्रयोगत्रये / चो यस्मात् साधनाभावस्य सत्त्वादिनिवृत्तेरभावः सत्त्वादिविधिरुक्तः / ततस्तस्मात् / व्याप्योऽपि क्षणिकत्वाभावोऽपि / अपिः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्ति समुच्चिनोति / यत एवमितिस्तस्मात् / साध्यस्य क्षणिकत्वस्य गतिनिश्चय इति // - कार्यहेतुमुद्दिश्याह-कार्येति / न केवलं पूर्वयोरित्यपिशब्दः / धूमाभावस्याभावो धूमसत्त्व प्रतिषेधप्रतिषेधस्य विधिरूपत्वादेवं पूर्वत्रापि विज्ञेयम् / ततो व्यापकस्य घूमाभावस्याभावात् व्याप्यस्य वहभावस्याभाव (वे) न्यायसिद्धे सति // न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्यपिशब्दः / अभिधेयेन साक्षादभिधाविश्रामविषयेण / सामर्थ्यादन्यथाऽनुपपत्तेः / एतदिह ज्ञातव्यम्-अन्वयव्यतिरेकयोर्भेदस्य व्यावृत्तिनिबन्धनत्वाद् वस्तुतस्तादात्म्यात् स्वभावहेतुजानुमानबलादितरप्रतीतिर्नत्वन्यथाऽनुपपत्तिलक्षणार्थापत्तिरनेनोच्यत इति / 1 गतिः / -C. 2 अर्थादिति-C. . . भवति / ही B. C. D. 4 मेव तत् C. * वति नोक्तोऽन्वय A. P. E. C. 6 व्यतिरेकबु० A . बद्धयध्यवसिते A. B. P. H. E. N. बद्धचावसितस्य A. P. H. E. N. बद्धयवसितस्य B. D. . सितत्वाभावात् C. 10 साध्ये नियतमित्यादिनाऽन्वयबा (बो) धसामर्थ्यात् व्यतिरेकं दर्शयति-दि.