________________ 166 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.24 स्वभावहेतोर्वधर्म्यप्रयोगमाहअसत्यनित्यत्वे नास्त्येव' सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा / 2 संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः // 24 // असत्यनित्यत्व इति / इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत' उच्यते / तेन हेत्वभावेन साध्याभावो व्याप्त उक्तस्त्रिष्वपि स्वभावहेतुषु / सन्नुत्पत्तिमान् कृतको वा शब्द इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् / इह च साधनाभावस्य व्यापकस्याभाव उक्तः। ततो व्याप्योपि साध्याभावो निवर्तत" इति साध्यगतिः॥ कार्यहेतोर्वधर्म्यवत्प्रयोगमाह- असत्यग्नौ न भवत्येव धूमः। / अत्र चास्ति धूम' इति कार्यहेतोः प्रयोगः // 25 // असत्यग्नाविति / इहापि१० वह्नयभावो धूमाभावेन व्याप्त उक्तः / 1 अस्ति चात्र धूम इति व्यापकस्य धूमाभावस्याभाव उक्तः। ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः // ननु च साधर्म्यवति'२ व्यतिरेको नोक्तः / वैधर्म्यवति चान्वयः। तत् कथमेतत् त्रिरूपलिङ्गाख्यानमित्याह दृष्टान्तदाष्र्टान्तिकयोर्हेतुसद्भावासद्भावद्वारकं वैधयं विद्यते प्रतिपाद्यतया यस्य तं दर्शयितुमाह वार्तिककारः / तथा चेति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्यर्थः / साध्यनिवृत्तिरभावः साधनस्य निवृत्त्याऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता। कुत इत्याहसाधनस्य निवृत्तावभावे नियतत्वादव्यभिचारित्वात्साध्यनिवृत्तेरिति . प्रक्रमात् / यतो यत्र साध्याभावस्तन्नियतत्वमस्य / इमामेव व्याप्ति व्यनक्ति यवीति / चो हेतौ। धर्मिणीत्यनेन मिमात्रमुपदर्शयन् सर्वोपसंहारवतीं व्याप्तिमाह। कुतः पुनः साध्याभावे साधनाभाव इत्याह-- हेत्वभावेनेति / अस्ति हेतुर्दश्यानुपलम्भः / अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः। अतो व्यापकाभावात्साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते / यत एवम् 1 नास्ति सत्त्वम्-B. D. P. H. E. N. 3 नियमः B. 5 नित्यत्वम्-टि० 7 निवृत्त इति A. P. H. E. N. 9 अत्र चास्तीति कार्य-C. D. " अत्र चास्ति धूम इति C. D. 2 असंश्च B. P. H. N. 4 सत्त्वेन-टि० 6 शब्दे धमिणि-टि. वैधर्म्यप्रयो० A.P.H. E.N. 10 इहापि च C. D. - 12 साधर्म्यव्यतिरेको B.