________________ 3.23.] वैधय॑वत्प्रयोगाः। साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः। वैधय॑वन्तं दर्शयितुमाह वैधर्म्यवतः' प्रयोगः यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव / यथा नीलादिविशेषः। न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः // 23 // . वैधर्म्यवत २इति यत् सदुपलब्धिलक्षणप्राप्तमिति यत् सत् दृश्यमित्यस्तित्वानुवादः / तदुपलभ्यत इत्युपलम्भविधिः। तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम् , असत्त्वनिवृत्तिश्च / सत्त्वम् , अनुपलम्भनिवृत्तिश्च उपलम्भः / तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिविहिता। तथा च साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात् साधननिवृत्त्या व्याप्ता कथिता। यदि च धमिणि साध्यधर्मो न भवेद् 'हेतुरपि न भवेत् / हेत्वभावेन साध्याभावस्य व्याप्तत्वात् / अस्ति च हेतुः / अतो व्यापकस्य साधनाभा वस्याभावाद् व्याप्यस्य साध्याभावस्याभाव इति साध्यगतिर्भवति / ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो'२नियतो दर्शनीयः सर्वत्रेति न्यायः॥ प्रकरणात्साधर्म्यवत्प्रयोगदर्शनप्रस्तावात्। तथाचेति धूमानुवादेनाग्निविधाने सतीत्यर्थः / नियमोऽव्यभिचारः, तल्लक्षणोऽर्थः प्रतिपाद्यतयाऽभिधेयः प्रयोजनं वाऽस्य-यत्र धूम इत्यादेः प्रयोगस्येति प्रस्तावात्, सोऽनुगन्तव्यः प्रत्येतव्यः। पूर्ववदनुपलब्ध्यादिवत् / एतदेव व्यनक्ति तदिति / यत एवं तत्तस्मात् / व्याप्तिरविनाभावः, साध्यनियतत्वं साधनस्येति यावत् / दर्शिता प्रदर्शिता / किनिमित्ता सेत्याह-कार्येति / अयमाशयः-व्याप्तिः खलः प्रतिबन्धः साध्यायत्तत्वम् / तच्चान्तरस्यार्थान्तरे प्रतिबद्धत्वं कार्यकारणभाववशादिति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादा[61b]त्म्यम् / . महानसः सूपकारशाला। आदिशब्देनायस्कारकुटयादेर्ग्रहणम् / किं तत्र व्याप्तिसाधकं प्रमाणं यदपेक्षया तस्य विषयत्वमित्याह-प्रत्यक्षेति / हिर्यस्मादर्थे। प्रत्यक्षानुपलम्भानां प्रत्येक जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भाभ्यामित्युक्तम् / परमार्थतस्तु त्रिभिरनुपलम्भाभ्यां प्रत्यक्षाभ्यामित्यवसेयम् / कार्यकारणभावादात्मा निश्चयारूढ़ः स्वभावो यस्येति विग्रहः कार्योन्यथा युक्तिविरोधः, स्ववचनविरोधश्चाऽस्य स्यात् / अविनाभावोऽव्यभिचारः साध्यायत्तता साधनस्येति यावत् / पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनमित्यर्थः // 'वैधर्मवतः E. 2 वैधय॑वतः यत् सदिति C. तस्मात्-टि. 4 सत्त्वम्-टि० : 5 हेतुरपि / हेत्व. B. P. H. हेतुरपि न स्यात्-D. 6 उपलम्भः-टि० 7 सत्त्वस्य-टि० 8 अनुपलभ्यमानः-टि० 9 उपलम्भ:-टि० 1. सत्त्वस्य-टि० 11 साध्यनिश्चयो भवति A. B.C. D. P. H. E.N. 12 नियमः B.