________________ तृतीयः परार्थानुमानपरिच्छेदः / [ 3.21. न पूर्वनिष्पन्नस्य पश्चानिष्पन्नः साध्यः। तस्मात् साधनधर्ममात्रानुबन्ध्यव' स्वभावः। स एव च साध्यः। तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभावहेतवः प्रयोक्तव्या इति स्थितम् // कार्यहेतोः२ प्रयोगः-यत्र धूमस्तत्राग्निः / यथा महानसादौ / अस्ति चेह धूम इति // 21 // कार्यहेतोः प्रयोगः। साधर्म्यवानिति प्रकरणादपेक्षणीयम् / यत्र धूम इति धूममनूद्य तत्राग्निरित्यग्ने विधिः। तथा च नियमार्थः पूर्ववदवगन्तव्यः। तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दशिता। व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह-यथा महानसादाविति / महानसादौ हि . प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः।। अस्ति चेहेति साध्यमिणि पक्षधर्मोपसंहारः // इहापि सिद्ध एव कार्यकारणभावे कारणे साध्ये 'कार्यहेतुर्वक्तव्यः // 22 // इहापीति। न केवलं स्वभावहेताविहापि कार्यहेतौ / सिद्ध एवेति निश्चिते कार्यकारणत्वे / कार्यकारणभाव निश्चयो झवश्यं कर्तव्यः / यतो न योग्यतया हेतुर्गमकोऽपि तु नान्तरीयकत्वादित्युक्तम् // एवं विरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपादयितुमाहकिञ्चेति निपातसमुदायो वक्तव्यान्तरसमुच्चये। पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङ्गेन पश्चादुत्पादायोगादिति भावो भिन्नहेतुकमिति ब्रुवतः। भिन्नहेतुकत्वेऽपि कथं भेद इत्याहहेतुभेदेति / चो हेतौ। तत इत्यादिनोऽपसंहारः। तस्मादित्यादिनाऽऽद्यस्योपसंहारः / / पूर्वस्मिन् काले जातः पूर्वजः। व्यभिचारस्तदन्तरेणाऽपि केवलस्य स्थितिः / चोऽस्वभावतापेक्षयाऽसाध्यतां समुच्चिनोति / तस्मादित्यादिना साधनधर्ममात्रानुबन्धिनस्तत्स्वभावत्वं साधनस्वभावत्वञ्चोपसंहरति / चशब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं समच्चिनोति / तथा च तन्निष्पत्तावेव निष्पन्नस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति।। ' बन्ध्येव यः स्वभावः B.C.D.E. 2 कार्यहेतुप्रयोगः C कार्यहेतोरपि प्रयोगः B. D. P. H. E. N. / त्यग्निविध:-B 4 व्याप्तिापकस्य तत्र भाव एवेत्यादिक:-टि० 5 कार्य हेतु० C. D. 6 कार्यहेतोः B. 7 कार्यकारणत्वनिश्चयो A. P. H. N. कार्यकारणनिश्चयो C.